________________
विशेषे घृतादि प्रक्षिपेत् स्वर्गकामः पुमान् , इत्येवंभूतायां श्रुतौ "स्वादेत् श्वांसं स्वर्गकामः" इत्येष नार्थः किं?, तर्हि भवदभिप्रेत एवेत्यत्र का प्रमा?, न किश्चित्प्रमाणमित्यर्थः॥६०५॥ पराभिप्रायमाशङ्कय परिहरति-'प्रदीपे'त्यादि, 'प्रदीपादिवत्' प्रदीप(सा)मान्यादिवत् इष्टश्चेत् 'तच्छन्दः' श्रुतिशब्दः 'अर्थप्रकाशकः' स्वार्थवाचकः खत एव, तत्स्वाभाव्यात् ,II एतदाशङ्क्याह-प्रमाणं न किञ्चित्-प्रत्यक्षादि 'अत्रापि' एवंभूतस्वभाववादे विद्यते तत्र, अतीन्द्रियत्वादस्य ॥ ६०६॥131 अत्रैव दोषान्तरमाह-'विपरी'त्यादिना-विपरीतप्रकाशश्च अर्थान्तरवाचकत्वं चेति भावः ध्रुवमापाद्यते 'कचित्' विषया-है। न्तरे, प्रदीपादिदृष्टान्तेन, एतदेवाह-तथाहि 'इन्दीवरे' नीलोत्पले दीपः प्रकाशयति रक्ततां, तथोपलब्धेः, एवं-चन्द्रः | पीतवाससि शुक्लतामिति ॥ ६०७ ॥ दोषान्तरमाह-'तस्मादित्यादिना-'तस्मात् श्रुतिपदान्न चाविशेषेण प्रदीपादिवत् रूपादौ प्रतीतिरुपजायते, इष्टवाच्यविषयादिना, सङ्केते सत्युपजायत इति चेदत आह-सङ्केतसव्यपेक्षत्वे, प्रतीतौ कर्त्तव्यायामभ्युपगम्यमाने, किमित्याह-'खत एवेत्ययुक्तिमत्' यदुक्तं शब्दोऽर्थप्रकाशकास्वत एव, तदशोभनमित्यर्थः॥६०८॥ किञ्च-'साधु रित्यादि, साधुः यथार्थो नवेत्ययथार्थो वा सङ्केत इति च नाशङ्कवंभूता निवर्ततेऽत्रेति, तथा 'तद्वैचित्र्यो|पलब्धेश्च' सङ्केतवैचित्र्यदर्शनाच्च, कुतः? इत्याह-वाशयाभिनिवेशतः' तथा तथा व्याख्याभावात् ॥ ६०९॥न |चेयमपौरुषेयीत्याह-व्याख्येत्यादि, व्याख्याऽप्यपौरुषेयी स्मृता केवलजैमिन्यादिभिरिति 'अस्य वेदस्य, मानाभावा
कारणात् , स्मरणकरणयोः, 'न सङ्गता' न युक्ता, 'मिथः' परस्परं विरुद्धभावाच्च, साङ्ख्यादिभिरन्यथा व्याख्यायमानत्वात्, तत्साधुत्वाद्यनिश्चितेः, व्याख्यासाधुत्वकल्पितत्वाद्यनवगमादित्यर्थः ॥ ६१० ॥ एतदेवाभिधातुमाह-'नान्य'इ-|
-