SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ * ** चोदनाफलं, स्वर्गादिवत् , (प्रामाण्यं च स्वतः चाक्षुषाद्यध्यक्षवत् तस्य नित्यत्वं च) स्वर्गकेवलार्थिनाऽपि 'श्रुतेरिव || वेदस्येवेत्यर्थः ॥ ५९४ ॥ उपमानादपि तत्सिद्धिमभिधातुमाह-'हृद्गते'त्यादि, हृद्गताशेषसंशीतिनिर्णयात् सकाशात् 'तबहे त सर्वज्ञग्रहे सति पूर्व पुनरुपमा-उपमानं प्रवर्त्तते 'अन्यग्रह इति' तथाविधान्योपलब्धौ सत्यां 'तत्र' गृहीते सर्वज्ञे, अनेन सदृशोऽसावित्येवमुपमानं, न चान्यत्रापि च गोगवयादावन्यथेति, अन्यथोपमानासंभवः, उभयदर्शनाभावाद् ॥ ५९५॥ || अर्थापत्त्यापि तद्हं प्रतिपादयितुमाह-शास्त्रे'त्यादि, 'शास्त्रात्'वेदात् 'अतीन्द्रियगतेः' धर्मादिपरिच्छेदात् अर्थापत्त्या-3 ऽपि परमार्थनीत्या गम्यते सर्वज्ञो, नहि तद्वाच्यवाचकभावसाक्षात्कारिव्यतिरेकेण सम्यक् शास्त्रादतीन्द्रियार्थगतिरित्यत्तित्सिद्धिरिति, इत्थं चैतदङ्गीकर्त्तव्यम् , अन्यथा 'तत्र' अतीन्द्रियार्थे नाश्वास:-इदमित्थमेवेत्येवं 'छद्मस्थस्य' प्रमातुरुपजायते, व्यभिचारसम्भवादिति ॥ ५९६ ॥ यतश्चैवमतः-'प्रमाणे त्यादि, 'प्रमाणपञ्चकावृत्तिः' भावोपलम्भकप्रमाणपञ्चकावर्त्तनं 'एवम्' उक्तेन प्रकारेण 'तत्र' सर्वज्ञे 'न युज्यते' न घटते, 'तथापि' एवमपि व्यवस्थिते अभावप्रामाण्यं तत्रेति 'ध्यान्ध्यविजृम्भितम्' अज्ञानविलसितमेतत् ।। ५९७ ॥ एवं सर्वज्ञं प्रसाध्य परोदितं धर्माधर्मव्यवस्थानिमित्तं विचारयति-'वेदादित्यादिना-वेदाधर्मादिसंस्थाऽपि पुरोदिता हन्त 'अतीन्द्रियदर्शिनं' प्रमातारं विहाय गम्यते 'सम्यक्' यथावत् कुतः एतत् , विचिन्त्यतामिदमिति ॥ ५९८ ॥ एतदेव भावयति-'न वृद्धे'त्यादिना-न वृद्धसंप्रदायेनैव वेदाद्धर्मादिसंस्था ज्ञायते, कुतः? इत्याह-'छिन्नमूलत्वयोगतः' आदावेव तत्त्वतः केनचिदज्ञानात् न 'अर्वाग्दर्शिना' छद्मस्थेन प्रमात्रा 'तत्र' वेदस्य 'अतीन्द्रियार्थः' धर्मादिप्रतिपादनशक्तिलक्षणः 'अवसीयते' ज्ञायते ॥ ५९९ ॥ ततश्च 5 *
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy