SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० जैनमता धिकारे ॥ ८२ ॥ न चाप्यतीन्द्रियार्थत्वाज्यायो विषयकल्पनम् । असाक्षाद्दर्शिनस्तत्र, रूपेऽन्धस्येव सर्वथा ॥ ६२५ ॥ | सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं, युज्यते नान्यतः क्वचित् ॥ ६२६ ॥ 'अत्रापि' सर्वज्ञनिषेधाधिकारे ब्रुवते केचिदित्थमेव सर्वज्ञवादिनः जैनादयः - प्रमाणपञ्चकावृत्तिः प्रतीता कथं 'तत्र' सर्वज्ञे उपपद्यते ?, नैवेति भावः ॥ ५९१ ॥ एतदेवाह - 'सर्वार्थे' त्यादिना - प्रत्यक्षं सर्वार्थविषयम सर्वार्थविषयं वेति चेतसि समाधायाह - 'सर्वार्थविषयं सर्वार्थपरिच्छेदकं तच्चेत्, तत्प्रत्यक्षं प्रमाणं, 'तन्निषेधकृत्' सर्वज्ञनिषेधकरणशीलम्, अत्रोत्तरम् - अभावः कथम् 'एतस्य' सर्वज्ञस्य ?, तथाविधप्रत्यक्षवत एव सर्वज्ञत्वात् न चेत्सर्वविषयं प्रत्यक्षं तन्निषेधकृदिति, अत्र समाधिः - अत्रापि 'अदः समम्' एतत्तुल्यं, यदुताभावः कथम् ?, एतस्य निषेधस्य सर्वत्र प्रवृत्तेः सतोऽप्यग्रहणादिति ॥ ५९२ ॥ एवं प्रत्यक्षमबाधकम्, अनुमानं तु साधकमेवेत्याह 'धर्मादय' इत्यादिना - धर्मादयोऽपि च ये परस्य चोदनागम्या स्वतन्त्रसिद्धा वा अजीवकाया इत्येते धर्मिणः, 'अध्यक्षाः' प्रत्यक्षा इति साध्यो धर्मः, 'ज्ञेयभावात्' ज्ञेयत्वादिति हेतुः घटादिवदिति दृष्टान्तः, सामान्येनाभिधीयमाने प्रत्यक्षादिविरोधिनी प्रतिज्ञेत्यत आह- 'कस्यचित्' केव लिन एव, न सर्वस्य, तेऽप्यपरैः सर्वज्ञवादिभिः केवला एवेष्यन्ते, 'दूरं पश्यति वा मेत्यादिवचनादित्यत आह- सर्व एव, टीका (कीटा) दयोऽपि इत्येवं नानुमानं न विद्यते सर्वज्ञे, किन्तु विद्यत एव ॥ ५९३ ॥ आगमादपि तत्सिद्धिरित्याह'आगमा' दित्यादि, आगमादपीति - आगमाख्यात्प्रमाणात् 'तत्सिद्धिः' सर्वज्ञसिद्धिः, कथमित्याह - यद् 'असौ' सर्वज्ञः सर्वज्ञवादे उत्तरपक्षः ॥ ८२ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy