SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ HUSSARSRUSSA SACRX न चाप्यपौरुषेयोऽसौ, घटते सूपपत्तितः । वक्तृव्यापारवैकल्ये, तच्छब्दानुपलब्धितः ॥ ६१४ ॥ वक्तृव्यापारभावेऽपि, तद्भावे लौकिकं न किम्? । अपौरुषेयमिष्टं वो, वचो द्रव्यव्यपेक्षया ॥ ६१५ ॥ हूँ दृश्यमानेऽपि चाशङ्काऽदृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रष्टारमन्तरेण निवर्त्तते ॥ ६१६ ॥ पापादत्रेदशी बुद्धिर्न पुण्यादिति न प्रमा। न लोको हि विगानत्वात्तबहत्वाद्यनिश्चितेः॥ ६१७॥ बहनामपि सम्मोहभावान्मिथ्याप्रवर्त्तनात । मानसङ्ख्याविरोधाच्च, कथमित्थमिदं नंनु? ॥ ६१८॥ अतीन्द्रियार्थद्रष्टा तु, पुमान् कश्चिद्यदीष्यते । संभवद्विषयाऽपि स्यादेवंभूताऽर्थकल्पना ॥ ६१९ ॥ अपौरुषेयताऽप्यस्य, नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां, व्यभिचारादिदोषतः ॥ ६२० ॥ 5 नाभ्यास एवमादीनामपि कर्ता विगानतः । स्मर्यते च विगानेन, हन्तेहाप्यष्टकादिकः ॥ ६२१ ॥ स्वकृताध्ययनस्यापि, तद्भावो न विरुध्यते । गौरवापादनार्थं च, तथा स्यादनिवेदनम् ॥ ६२२ ॥ मत्रादीनां च सामर्थ्य, शाबराणामपि स्फुटम् । प्रतीतं सर्वलोकेऽपि, न चाप्यव्यभिचारि तत् ॥ ६२३ ॥ * वेदेऽपि पठ्यते ह्येष, महात्मा तत्र तत्र यत् । स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते ॥ ६२४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy