________________
सर्वज्ञवावे
उत्तरपक्षः
शास्त्र हारि० जैनमताधिकारे
॥८१॥
COMAMRODAMAG
तन्निवृत्तौ न चोपायो, विनाऽतीन्द्रियवेदिनम् । एवं च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना ॥ ६०३॥ स्वयं रागादिमानार्थ. वेत्ति वेदस्य नान्यतः। न वेदयति वेदोऽपि. वेदार्थस्य कुतो गतिः? ॥६०४॥lt तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेख(त् श्व)मांसमित्येष, नार्थ इत्यत्र का प्रमा? ॥६०५॥ प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः । खत एव प्रमाणं न, किञ्चिदत्रापि विद्यते ॥ ६०६ ॥ विपरीतप्रकाशश्च, ध्रुवमापाद्यते क्वचित् । तथा हीन्दीवरे दीपः, प्रकाशयति रक्तताम् ॥ ६०७॥ तस्मान्न चाविशेषेण, प्रतीतिरुपजायते । सङ्केतसव्यपेक्षत्वे, खत एवेत्ययुक्तिमत् ॥ ६०८ ॥ साधुन वेति सङ्केतो, न चाशङ्का निवर्त्तते । तद्वैचित्र्योपलब्धेश्च, खाशयाभिनिवेशतः ॥ ६०९ ॥ व्याख्याऽप्यपौरुषेयस्य, मानाभावान्न सङ्गता । मिथो विरुद्धभावाच्च, तत्साधुत्वाद्यनिश्चितेः ॥ ६१० ॥ नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः । सोऽतीन्द्रिये न यन्याय्यस्तत्तद्भावविरोधतः ॥ ६११ ॥ तस्माद् व्याख्यानमस्येदं, स्वाभिप्रायनिवेदनम् । जैमिन्यादेर्न तुल्यं किं, वचनेनापरेण वः ? ॥ ६१२ ॥ एष स्थाणुरयं मार्ग, इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति, तयोर्भेदः परीक्ष्यताम् ॥ ६१३ ॥
-