________________
सर्वार्थविषयं तच्चेत्, प्रत्यक्षं तन्निषेधकृत् । अभावः कथमेतस्य ? न चेदत्राप्यदः समम् ॥ ५९२ ॥ धर्मादयोऽपि चाध्यक्षा, ज्ञेयभावाद् घटादिवत् । कस्यचित्सर्व एवेति नानुमानं न विद्यते ॥ ५९३ ॥ आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् । प्रामाण्यं च स्वतस्तस्य, नित्यत्वं च श्रुतेरिव ॥ ५९४ ॥ हृद्गताशेषसंशीतिनिर्णयात्तद्रहे पुनः । उपमाऽन्यग्रहे तत्र, न चान्यत्रापि चान्यथा ॥ ५९५ ॥ | शास्त्रादतीन्द्रियगतेरर्थापत्त्याऽपि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते ॥ ५९६ ॥ प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाऽप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम् ॥ ५९७ ॥ वेदाद्धर्मादिसंस्थापि, हन्ताऽतीन्द्रियदर्शिनम् । विहाय गम्यते सम्यकू, कुत ? एतद्विचिन्त्यताम् ॥ ५९८ ॥ न वृद्धसंप्रदायेन, छिन्नमूलत्वयोगतः । न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥ ५९९ ॥ प्रामाण्यं रूपविषये, संप्रदाये न युक्तिमत् । यथाऽनादिमदन्धानां तथाऽत्रापि निरूप्यताम् ॥ ६०० ॥ न लौकिकपदार्थेन, तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र, तद्विपर्ययभावतः ॥ ६०१ ॥ नित्यत्वा पौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का, विदुषो न निवर्त्तते ॥ ६०२ ॥