________________
R
15 वापीकूपतडागानि, देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ॥ ५८८ ॥
अतोऽपि शुक्लं यदृत्तं, निरीहस्य महात्मनः। ध्यानादि मोक्षफलदं, श्रेयस्तदभिधीयते ॥ ५८९ ॥ वर्णाश्रमव्यवस्थाऽपि, सर्वा तत्प्रभवैव हि । अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् ॥ ५९० ॥
'अनापीत्यादि, 'अत्रापि मोक्षवादे अभिदधति 'अन्ये' मीमांसकाः सर्वज्ञो नाम नैव विद्यते क्वचिदिति, कुतः? इत्याह-तद्राहकप्रमाऽभावात् सर्वज्ञग्राहकप्रमाणाभावाद् 'इति न्यायानुसारिणः' एवं वक्ष्यमाणन्यायानुसारिण इति ॥ ५८०॥ न्यायमभिधातुमाह-प्रत्यक्षे'त्यादिना, प्रत्यक्षेण प्रमाणेन, सकललोकसिद्धेन, सर्वज्ञो नैव गृह्यते, तथाप्रती| त्यभावात् , 'लिङ्गमपि तद्गमकत्वाभिमतम् अविनाभावि 'तेन' सर्वज्ञेन किञ्चिन्न दृश्यते लोक इति ॥ ५८१॥ 'नचेत्यादि, न चागमेन सर्वज्ञो गृह्यते, यद् 'असौ' आगमः 'विध्यादिप्रतिपादकः' विधिप्रतिषेधवाचको, न चायं विधिविषयः, तथा अप्रत्यक्षत्वतः कारणान्नैवोपमानेनापि गम्यते सर्वज्ञः, तस्य सादृश्यविषयत्वाद्, अनेन दृश्यमानेन पदार्थेन सदृशः तदीयो गौरिति प्रवृत्तेः॥ ५८२॥ तथा-'नार्थे त्यादि, नार्थापत्त्या सर्वज्ञो गृह्यते, यतः सर्वोऽर्थः धर्मदेशनादिः 'तं'सर्वज्ञं विनाऽप्युपपद्यते-घटत एव, यत एवमतः 'प्रमाणपञ्चकावृत्ते' भावोपलंभकप्रमाणपञ्चकाप्रवर्त्तनात् 'तत्र' सर्वज्ञेऽभावप्रमाणता, अभावेन सर्वज्ञाभावगतिरित्यर्थः॥ ५८३ ॥ यथैनमन्तरेणापि धर्मदेशनाद्युपपत्तिस्तथाऽऽह-'धर्म'त्यादिना-धर्माधर्मव्यवस्था तु लोके घटत एव, कुतः ? इत्याह-वेदाख्यादागमात्किल, किलेति परोक्षाप्तागमसूचकः, कुतः?
। ५८ लिङ्गमपि तद्गमकत्सायद 'असौ' आगम सर्वज्ञः, तस्य साजो गृह्यते,
OCOCCURRESSOCALSOOSTEDO
AMACROSSASSADORESS