SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ RSS * शास्त्र हारि० जैनमताधिकारे ॥७९॥ कर्मापगमस्वभावलक्षणया, निवृत्तिस्तस्य युज्यते, तथाविधस्थैर्यपरिणामस्य । निदर्शनमाह-समयातिक्रमे यद्वद-यथा सिद्धस्य मोक्षोपायः प्रथमसमयातिक्रान्तौ सिद्धभावश्च तत्र वै, सिद्ध एव, न सिद्धत्वनिवृत्तिस्तथाभावत्वादिति ॥ ५७८ ॥ इदानीं निगम-18 सर्वज्ञवादे यति-'ज्ञाने'त्यादिना-ज्ञानयोगात् 'अतः' अस्मात्कारणात् मुक्तिः 'इति' एतत्सम्यग् व्यवस्थितमुक्तवत् , तन्त्रान्तरा-18 पूर्वपक्षः नुरोधेन वेदान्तवाद्यनुसारेण गीतं चेत्थं न दोषकृत् , प्रतीतार्थाविरोधादिति ॥ ५७९ ॥ वार्त्तान्तराभिधित्सयाऽऽहअत्राप्यभिदधत्यन्ये, सर्वज्ञो नैव विद्यते । तद्वाहकप्रमाऽभावादिति न्यायानुसारिणः ॥ ५८० ॥ प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि, तेन किञ्चिन्न दृश्यते ॥ ५८१ ॥ न चागमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥ ५८२ ॥ नार्थापत्त्याऽपि सर्वोऽर्थस्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥ ५८३ ॥ धर्माधर्मव्यवस्था तु, वेदाख्यादागमात्किल । अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः ॥ ५८४ ॥ आह चालोकवद्वेदे, सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता, किमर्थं कल्प्यते नरः ? ॥ ५८५ ॥ इष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः। व्यवहारप्रसिद्ध्यैव, यथैव दिवसादयः ॥ ५८६ ॥ ऋत्विग्भिर्मत्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां तु यदत्तमिष्टं तदभिधीयते ॥ ५८७ ॥ ॥७९॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy