________________
शा. स. १४
कथश्चिद्भावतः 'तदुपक्रमे' संसारव्याभ्युपक्रमे प्रवर्त्तत इति ॥ ५७१ ॥ ' प्रवर्त्तमाने 'त्यादि, प्रवर्त्तमान 'एवं च' उक्तेन प्रकारेण यथाशक्ति स्थिराशयः, कुशलमार्गे, शुद्धं चारित्रमासाद्य, क्लिष्टकर्मविगमेन, केवलं लभते 'क्रमात् ' क्षपकश्रेणि. क्रमेण ॥ ५७२ ॥ 'तत' इत्यादि, 'ततः' केवललाभात् 'सः' भगवान् सर्वविद् भूत्वा, स्वकालेनैव, 'भवोपग्राहिकर्मणः' सातवेदनीयादेः 'ज्ञानयोगात्' वक्ष्यमाणरूपात् 'क्षयम्' आत्मनः पृथग्भावमापाद्य 'मोक्षमाप्नोति' अपवर्गमासादयति 'शाश्वतं ' नित्यं, पुनरनुत्पत्तेः ॥ ५७३ ॥ 'ज्ञानयोग' इत्यादि, ज्ञानयोगस्तपः शुद्धं, सर्वथा श्रेष्ठमित्यादि, यदुदीरितं पूर्वमुपन्यासग्रन्थे, 'ऐदंपर्येण' एकवाक्यतया 'भावार्थ:' गर्भरूपः 'तस्य' उदीरितस्यायमभिधीयते साम्प्रतमिति ॥ ५७४ ॥ - 'ज्ञाने 'त्यादि, ज्ञानयोगस्य शुद्धतयोक्तलक्षणस्य 'योगीन्द्रैः' तीर्थकरैः 'परा काष्ठा' उत्कृष्टा कोटिः 'प्रकीर्त्तिता' प्रतिपादिता 'शैलेशी सञ्ज्ञितं परमयोगनिरोधलक्षणाभिधानं 'स्थैर्य' परमशुभयत्नरूपं, 'ततः' स्थैर्यात् मुक्तिरसंशयं, ह्रस्वपञ्चाक्षरोद्भिरणमात्रेण कालेन ॥ ५७५ ॥ इदं च धर्म इत्येतदाह-'धर्म' इत्यादिना - धर्मस्तच्च स्थैर्य, कुतः इत्याह'आत्मधर्मत्वात्' आत्मस्वभावत्वात्, मुक्तिदोऽसौ 'शुद्धिसाधनात्' परमशुद्धिकारणत्वेन, 'अक्षय:' शाश्वतः, अप्रतिपातित्वात् कारणादिति, अप्रतिपातित्वं च सदा 'मुक्ती' मोक्षे 'तथास्थिते:' स्थैर्येणैव भवनात्, न चैतदनार्षम् ॥ ५७६ ॥ यत आह- ' चारित्रे' त्यादिना - चारित्रपरिणामस्य विशिष्टस्य शैलेश्यवस्थाभाविनः निवृत्तिर्न च सर्वथा, किन्तु कथञ्चित्कर्मापगमनस्वभावत्वेन, कथमेतदेवमित्याह - सिद्ध उक्तो यतः 'शास्त्रे' प्रवचने प्रज्ञापनादौ न चरित्री न चेतरः, 'नोचरित्ती नोअचरित्ती'ति वचनप्रामाण्यात् ॥ ५७७ ॥ इहैवाक्षेपपरिहारावाह 'नचे' त्यादिना, न चावस्था निवृत्त्येह,