________________
शास्त्र ० हारि० जैन मता
धिकारे
11 12 11
मुक्तेश्च गुणरूपतामेकान्तेन, 'तदर्थं' मुक्त्यर्थं चेष्टते नित्यं सर्वत्र तत्फलारम्भित्वात्, विशुद्धात्मा, पापरहितः यथाऽऽगर्म, यथैवागमो व्यवस्थितः शक्त्याद्यपेक्षया तथैव वेष्टत इत्यर्थः ॥ ५६६ ॥ 'दुष्कर' मित्यादि, दुष्करं 'क्षुद्रसत्त्वानां' संसाराभिनन्दिनामपरमार्थदर्शिनामनुष्ठानं करोत्यसौ, अहिंसादिपालनाय परीषहादिजयरूपं, किमित्याह-मुक्तौ दृढानुरागत्वात्, पारमार्थिकाभिलाषभावाद्, अन्यथा तत्प्रसिद्धेः, ध्यनिदर्शनमाह - कामीव वनितान्तरे, अयं हि तदनुरक्तस्त| दाप्तये प्रवर्त्तमानो न शीतादि गणयतीत्येतावता निदर्शनं, क्षुद्रसत्त्वानामिदं दुष्करं तत्त्वत इति ॥ ५६७ ॥ एतदाह'उपादेये' त्यादिना - उपादेयविशेषस्य चिन्तामणिरत्नादेः, तथैवागतस्यार्थितायां सत्यां किमित्याह-न 'यत्' यस्मात् 'सम्यक् प्रसाधनं ' तत्प्राप्त्यव्यभिचारि 'दुनोति' उपतापयति 'चेतः' अन्तःकरणम् 'अनुष्ठानं' गमनादि, कुतः ? इत्याह'तद्भावप्रतिबन्धतः' तस्मिन् - उपादेयविशेषे भावप्रतिबन्धेनान्तराहादभावादिति ॥ ५६८ ॥ चित्तपीडाऽभावे च न दुष्करता इत्याह- 'तत'त्यादि, ततश्च दुष्करं तन्न, तद्विषयनुष्ठानं सम्यगालोच्यते यदा, अनर्थत्यागार्थाप्तिद्वारेण, अपि स्वतः 'अन्यत्' विपरीतमनुष्ठानं दुःखदं दुष्करं 'न्यायात्' न्यायेन, किंभूतमित्याह - हेयवस्तुप्रसाधनं (कं), तदात्वे ( सुन्दरत्वेऽपि ) आयत्यामसुन्दरत्वादिति भावः ॥ ५६९ ॥ एतदेव समर्थयति - 'व्याधी' त्यादिना - 'व्याधिग्रस्तः' व्याध्यभिभूतः यथाऽऽरोग्यलेशं कुतश्चिदुपक्रमात् 'आखादयन्' अनुभवन्, हिताहितज्ञः किमित्याह - कष्टेऽप्युपक्रमे - निःशेषव्याधिघातसमर्थे 'धीरः' सात्त्विकः सम्यक् प्रीत्या प्रवर्त्तते, तथा भव्यतयाऽऽरोग्यकामत्वात् ॥ ५७० ॥ अत्र दार्शन्तिकयोजनामाह'संसारे 'त्यादिना - संसारव्याधिना ग्रस्तः, जन्मादिरूपेण, तद्वत् ज्ञेयो 'नरोत्तमः' आसन्नभवः, शमारोग्यलवं प्राप्य
मोक्षोपायः
॥ ७८ ॥