________________
शास्त्र०
हारि०
जैनमता धिकारे
॥ ७७ ॥
मित्याह - उपायाभावतः कारणात्, सत्युपाये किं वा न 'सदा' सर्वकालमेव उपायः सर्वदेहिनामेवेति ? ॥ ५५३ ॥ प्रस्तुतवाद्येव पराभिप्रायमाशङ्कय परिहरति- 'कर्म्मादी त्यादिना - कर्मादेः, आदिशब्दात्प्रधानादिग्रहः, परिणत्यादिसापेक्ष इति, आदिशब्दाद्विवर्त्तग्रहः, 'यत्' यस्मा ( यदि - चे) दुपायस्ततः अनादिसत्त्वात्तत्कर्मादेः उक्तलक्षणस्य 'परिणत्यादि उक्तलक्षणमेव किं तथा ?, कादाचित्क हेत्वन्तराभावादिति ॥ ५५४ ॥ एतदेव स्पष्टयति 'तस्यैवे' त्यादिना |- 'तस्यैव' कर्मादेश्चित्रस्वभावः ( ततः ) 'तत्' परिणत्यादि 'तथा' कादाचित्कमिति, एतन्न युज्यते नीत्या, कुतः ? इत्याह- 'उत्कृष्टा' या स्थितिरुत्कृष्टा ग्रन्थयवाप्तिरूपा च 'तस्य' कर्मादेः 'यत्' यस्मात् जाता 'अनेकशः' बहुशः, | किलेत्याप्तवचनमेतदिति ॥ ५५५ ॥ वार्त्तान्तराभिधित्सयाऽऽह - 'अत्रापी' त्यादि, 'अत्रापि' मोक्षाभाववादे वर्णयन्ति 'अन्ये' मोक्षवादिनो जैनाः, विद्यते 'दर्शनादिकः' दर्शनज्ञानचारित्ररूपः 'उपाय' प्राप्तिहेतुः कस्येत्याहमोक्षतत्त्वस्य अधिकृतस्य, किम्भूतः ? - परः सर्वज्ञभाषितो नान्यभाषितोऽभाषितो वा ॥ ५५६ ॥ किमिदं दर्शनमित्याह - ''दर्शन' मित्यादि, 'दर्शनं' सम्यग्दर्शनं, मुक्तिबीजं च तदेव, तथा सम्यक्त्वं तदेव तत्त्ववेदनं, श्रद्धानमाश्रित्य दुःखान्तकृत् ग्रन्थिभेदात् सुखारम्भोऽत एव पर्यायास्तस्य कीर्त्तिता यत इति ॥ ५५७ ॥ किं वा - "न सदा सर्वदेहिना" मिति यदुक्तमत्राह- 'अनादी' त्यादि, अनादिभव्यभावस्य तत्र जीवसम्बन्धिनः तत्स्वभावत्वयोगतः, प्रकृतिवैचित्र्येण, किमित्याह - 'उत्कृष्टाद्यासु' उत्कृष्टग्रन्थ्यवाप्तिरूपास्वतीतासु, तथा कर्मस्थितिष्वलं, तेन तेन द्रव्यलिङ्गाद्यवाप्तिप्रकारेण ॥ ५५८ ॥ किमित्याह - ' तद्दर्शन' मित्यादि, 'तद्दर्शनं' सम्यग्दर्शनमवाप्नोति, कथमित्याह - 'कर्मग्रन्थि ' मोहनीयदलं
मोक्षोपायः
॥ ७७ ॥