________________
|व्याधिग्रस्तो यथाऽऽरोग्यलेशमाखादयन् बुधः । कष्टेऽप्युपक्रमे धीरः, सम्यक् प्रीत्या प्रवर्त्तते ॥ ५७० ॥ संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य, भावतस्तदुपक्रमे ॥ ५७१ ॥
प्रवर्त्तमान एवं च, यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य, केवलं लभते क्रमात् ॥ ५७२ ॥ । ततः स सर्वविद् भूत्वा, भवोपग्राहिकर्मणः। ज्ञानयोगात् क्षयं कृत्वा, मोक्षमाप्नोति शाश्वतम् ॥५७३॥3
ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्यायमभिधीयते ॥ ५७४ ॥
ज्ञानयोगस्य योगीन्द्रैः, परा काष्ठा प्रकीर्तिता । शैलेशीसञ्जितं स्थैर्य, ततो मुक्तिरसंशयम् ॥ ५७५॥ है धर्मस्तच्चात्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् । अक्षयोऽप्रतिपातित्वात्सदा मुक्तौ तथास्थितेः ॥५७६॥
चारित्रपरिणामस्य, निवृत्तिर्न च सर्वथा। सिद्ध उक्तो यतः शास्त्रे, न चरित्री न चेतरः ॥ ५७७ ॥ न चावस्थानिवृत्त्येह, निवृत्तिस्तस्य युज्यते । समयातिक्रमे यदत्सिद्धभावश्च तत्र वै ॥ ५७८ ॥ |ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् । तत्रान्तरानुरोधेन, गीतं चेत्थं न दोषकृत् ॥ ५७९॥
वार्त्तान्तरमाह-'अन्य' इत्यादिना-अन्ये पुनर्नास्तिकमाया वदन्त्येवं-यदुत मोक्ष एव परमार्थतो न विद्यते, कथ
MSROCUSTOMSAKASONGS*