________________
मोक्षसिद्धिः
हारि०
शास्त्र. तदर्शनमवाप्नोति, कर्मग्रन्थि सुदारुणम् । निर्भिद्य शुभभावेन, कदाचित् कश्चिदेव हि ॥ ५५९ ॥
सति चास्मिन्नसौ धन्यः, सम्यग्दर्शनसंयुतः। तत्त्वश्रद्धानपूतात्मा, रमते न भवोदधौ ॥ ५६०॥ जैनमताधिकारे
स पश्यत्यस्य यद्रूपं, भावतो बुद्धिचक्षुषा । सम्यक्शास्त्रानुसारेण, रूपं नष्टारिक्षोगवत् ॥ ५६१ ॥ तदृष्ट्वा चिन्तयत्येवं, प्रशान्तेनान्तरात्मना । भावगर्भ यथाभावं, परं संवेगमाश्रितः॥ ५६२ ॥ जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसां, अहो ! भीमो भवोदधिः ॥ ५६३ ॥ सुखाय तु परं मोक्षो, जन्मादिक्लेशवर्जितः। भव्यशक्क्या विनिर्मुक्तो, व्यावाधावर्जितः सदा ॥ ५६४ ॥ हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिया॑वाधाविनिवृत्तितः ॥ ५६५ ॥
बुद्धवं भवनैर्गुण्यं, मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं, विशुद्धात्मा यथाऽऽगमम् ॥ ५६६ ॥ ४. दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात् , कामीव वनितान्तरे ॥ ५६७ ॥ | उपादेयविशेषस्य, न यत्सम्यक् प्रसाधनम् । दुनोति चेतोऽनुष्ठानं, तद्भावप्रतिबन्धतः ॥ ५६८ ॥ |ततश्च दुष्करं तन्न, सम्यगालोच्यते यदा । अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसाधकम् ॥ ५६९ ॥
*USASISARUSSARDASHX
॥ ७६॥