SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ AUGAISROSSRSRSRSRSRS भावग्रहः, स्वतन्त्रेणैव वाध्यते तदेतत् सदद्वैतं, 'तत्संशयादियोगाच' तदद्वैतसंशयनिर्णयविपर्ययभावाच्च प्रतीत्या च विचिन्त्यताम् , अद्वैतं बाध्यत इति ॥ ५४९॥ वार्त्तान्तराभिधित्सयाऽऽह-'अन्य'इत्यादि, अन्ये व्याख्यानयन्त्येवं जैनादयो, यदुत समभावप्रसिद्धये मुमुक्षूणां सर्वेषु अद्वैतदेशना 'शास्त्रे' श्रावकप्रज्ञप्ते वेदे निर्दिष्टं, नतु तत्त्वतोऽद्वैतमेवेत्यभिप्रायः॥ ५५० ॥ 'नचैत'दित्यादि, न च एतत् व्याख्यानं बाध्यते युक्त्या, कुतः? इत्यत्राह-'सच्छास्त्रादिव्यवस्थितेः' सच्छास्त्रादि-प्रमाणादिव्यवस्थानात् , व्यवस्थितिश्च संसारमोक्षसद्भावात् एवं व्याख्यातो, मोक्षार्थ यत्नसिद्धितस्तत्साफल्येन ॥ ५५१॥ विपक्षे बाधामाह-'अन्यथेत्यादिना-अन्यथा तत्त्वतोऽद्वैते सति, कयोः इत्याह-हन्त संसारमोक्षयोरेव, किमित्याह-सर्वानुष्ठानवैयर्थ्य, फलाभावेन, अनिष्टं संप्रसज्यते यमादिविधानादीति ॥ ५५२॥अन्ये पुनर्वदन्त्येवं, मोक्ष एव न विद्यते । उपायाभावतः किं वा, न सदा सर्वदेहिनाम् ? ॥ ५५३ ॥ कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः। अनादिमत्त्वात्कर्मादिपरिणत्यादि किं तथा? ॥ ५५४॥ | तस्यैव चित्ररूपत्वात्तत्तथेति न युज्यते । उत्कृष्टा या स्थितिस्तस्य, यज्जाताऽनेकशः किल ॥ ५५५॥ 16 अत्रापि वर्णयन्त्यन्ये, विद्यते दर्शनादिकः । उपायो मोक्षतत्त्वस्य, परः सर्वज्ञभाषितः ॥ ५५६ ॥ दर्शनं मुक्तिबीजं च, सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत्सुखारम्भः, पर्यायास्तस्य कीर्तिताः॥५५७ ॥ अनादिभव्यभावस्य, तत्स्वभावत्वयोगतः। उत्कृष्टाद्यावतीतासु, तथा कर्मस्थितिष्वलम् ॥ ५५८ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy