SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० जैनमताधिकारे ॥७५॥ SONGRECRUCAME R सद्ब्रह्म पुरुषब्रह्म जलब्रह्मेत्यादि, सद्ब्रह्माधिकृत्याह-सतो यत् भेदकं नान्यत् , येन सत्सदन्तराद्विशिष्यते इति, नन्वस्ति अद्वैतनीलादीत्याह-तच तन्मात्रमेव हि, न नीलादि भावतोऽन्यद्, असत्त्वप्रसङ्गादिति सन्मानं तत्त्वं, नीलादिभेदश्च भ्रान्त निरास: इति ॥ ५४३ ॥ तदाह-'यथे'त्यादिना-यथा विशुद्धमाकाशम्-असङ्कीर्ण केनचित् , तिमिरोपप्लुतो जनः स्वदोषसामर्थ्येन सङ्कीर्णमिव 'मानाभिः' केशमक्षिकादिरूपाभिः भिन्नाभिरभिमन्यते, उपप्लवानिश्चिनोति ॥ ५४४॥ दान्तिकयोजना|माह 'तथे'त्यादिना-तथेदम् 'अमलम्' अत्यन्तशुद्धं 'ब्रह्म' सल्लक्षणं निर्विकल्पं निरवयवम् 'अविद्यया' द्वैताभ्या(ध्या)सरूपया कलुषत्वमिवापन्नं नीलादिरूपेण भेदरूपं प्रकाशते, एकरूपमपि सदिति ॥ ५४५॥ वार्त्तान्तराभिधित्सयाऽऽह'अत्रापी' त्यादि, 'अत्रापि अद्वैतपक्षे 'अन्ये वादिनः वदन्त्येवं, कथमित्याह-'अविद्या' उक्तलक्षणा न 'सत': सन्मा त्रात् 'पृथक् अन्यैव, 'तच' सत् 'तन्मात्रमेव' सन्मात्रमेव 'इति' एवं भेदाभासः नीलादिरूपः 'अनिबन्धनः' जनटू कविषयाभावादकारण एवेत्यर्थः ॥ ५४६ ॥ परोक्तिपरिहारायाह-सवे'त्यादिना-'सैव' अविद्या एव अथैवं मन्यसे अभे-18 दरूपाऽपि सन्मात्रतया 'भेदाभासनिबन्धनम्' अविद्यमाननीलादिप्रतिभासकारणम् , एतदाशङ्कयाह-प्रमाणमन्तरेण अस्यार्थस्य निश्चायकम् , "एतत् अन्यथाभूते जनकविषयेऽन्यथा प्रतिभासनमिति अवगन्तुं न शक्यते, युक्त्या यत् तत् दास्यादित्यभिप्रायः ॥ ५४७ ॥ दोषान्तराभिधित्सयाऽऽह-'भावेऽपी' त्यादि, भावे(पि ) च प्रमाणस्य यथोक्तनिश्चयकर्तुः|| प्रमेयव्यतिरेकतः, अन्यथा तत्तथाऽयोगात्, ननु नाद्वैतमेवेति, प्रमाणप्रमेयाद्वैतात्, तदभावेऽप्रमाणकं, प्रमाणा-8॥७५॥ भावे, अद्वैतमिति ॥ ५४८॥ दोषान्तराभिधित्सयाऽऽह-'विद्येत्यादि, विद्याऽविद्यादिभेदाच्च, आदिशब्दात्प्रमाणप्रमेय
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy