SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अन्ये त्वद्वैतमिच्छन्ति, सद्ब्रह्मादिव्यपेक्षया । सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि ॥ ५४३ ॥ है यथा विशुद्धमाकाशं, तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिर्भिन्नाभिरभिमन्यते ॥ ५४४॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं, भेदरूपं प्रकाशते ॥ ५४५॥ अत्राप्येवं वदन्त्यन्ये, अविद्या न सतः पृथक् । तच तन्मात्रमेवेति, भेदाभासोऽनिबन्धनः ॥ ५४६ ॥ सैवाथाभेदरूपाऽपि, भेदाभासनिबन्धनम् । प्रमाणमन्तरेणैतदवगन्तुं न शक्यते ॥ ५४७ ॥ || भावेऽपि च प्रमाणस्य, प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति, तदभावेऽप्रमाणकम् ॥ ५४८॥ विद्याऽविद्यादिभेदाच्च, खतन्त्रेणैव बाध्यते । तत्संशयादियोगाच्च, प्रतीत्या च विचिन्त्यताम् ॥ ५४९ ॥ अन्ये व्याख्यानयन्त्येवं, समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे, निर्दिष्टा नतु तत्त्वतः॥ ५५०॥ न चैतद्वाध्यते युक्त्या, सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च, तदर्थं यत्नसिद्धितः ॥ ५५१ ॥ अन्यथा तत्त्वतोऽद्वैते, हन्त ! संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं संप्रसज्यते ॥ ५५२ ॥ अन्ये तु अद्वैतमिच्छन्ति, द्वाभ्यामितं द्वीतं द्वीते भवं द्वैतं न द्वैतमद्वैतं, कथमिच्छन्ति ? इत्याह-सद्ब्रह्मादिव्यपेक्षया, RRRRRRRAAArt
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy