SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० जैनमता धिकारे ॥ ७४ ॥ त्याह- 'सादृश्ये 'त्यादि, सादृश्याज्ञानतः कारणात् न्याय्या, न 'विभ्रमबलादपि भ्रान्तिसामर्थ्येनापि हेतुं समर्थयति'एतद्वयाग्राहे' सदृशद्वयाग्रहणे क्षणिकज्ञाने न युक्तं, न च सादृश्यकल्पनम् अतिप्रसङ्गादिति ॥ ५३७ ॥ न चेयमविषयत्वेन भ्रान्तेत्याह- 'नचे' त्यादिना - न च भ्रान्ताऽप्येषा, स्वरूपत एव, सद्वाधाऽभावकारणात्, कदाचन, नात्र अकेशेषु केशप्रत्ययस्येव सती बाधा, पराभिप्रायमाशङ्क्य परिहरति- 'योगिप्रत्ययस्तद्भावे' इति, योगिप्रत्ययस्य तद्वाधाभावे, प्रत्यभिज्ञानं प्रति, किमित्याह-प्रमाणं नास्ति किञ्चन, श्रद्धां विहाय ॥ ५३८ ॥ एतदेव प्रकटयति- 'नाना योगी' त्यादि, नाना योगी विजानाति स्वप्रत्यक्षेणैव, 'अनाना नेति न पुनरेकमित्यत्र न प्रमा, 'सर्वं क्षणिक' मिति देशना प्रमेत्यत्राह'देशनाया' उक्तलक्षणाया 'विनेयानुगुण्येनापि श्रोत्रनुग्रहार्थमृतेऽप्यर्थं तथा प्रवृत्तितः, ब्राह्मणभार्यामृतदेशनावत् न प्रमेति ॥ ५३९ ॥ प्रत्यभिज्ञानाभासाया अस्या भेदमाह - 'या चेत्यादिना - या च लूनपुनर्जा तनखकेशतृणादिष्वर्थेषु भिन्ने ध्वेव इयं संलक्ष्यते, प्रत्यभिज्ञा, साऽपि 'तदाभासा' सम्यक्प्रत्यभिज्ञाभासा, न 'सैव हि सम्यक्प्रत्यभिज्ञैव ॥ ५४० ॥ न च तथाऽपि सप्रतिपक्षत्वाद्दृष्टेत्येतदाह-'प्रत्यक्षे' त्यादिना - प्रत्यक्षाभासभावे सति नाप्रमाणं यथैव हि लोके प्रत्यक्षं, तद्वदेव 'इयं' प्रत्यभिज्ञा प्रमाणमवगम्यतां, तद्विलक्षणेति ॥ ५४१ ॥ न चेयं न तन्त्रमित्यत्राह - 'मती'त्यादिना - ' मतिज्ञानविकल्पत्वाद' वासनाधारणाफलत्वेन न चानिष्टिः 'इयं' प्रत्यभिज्ञा जैनानां यतः, 'एतद्बलात्' प्रत्यभिज्ञाबलात् ततः 'सिद्ध' प्रतिष्ठितं नित्यानित्यादि, आदिशब्दात्सदसद्रूपादिग्रहः, वस्तु 'नः' अस्माकमिति ॥ ५४२ ॥ वार्त्तान्तरमाह - 'अन्ये त्वित्यादिना - भेदाभेदैकान्तनिरासः ॥ ७४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy