________________
शास्त्र हारि० जैनमताधिकारे
भेदाभेदैकान्तनि
॥७३॥
कुतः? इत्याह-भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः, इतरेतरगर्भ इत्यर्थः ॥ ५२३ ॥ यदि नामैवं ततः किमि-16 त्याह-जात्यन्तरात्मकं चैनं-भेदाभेदविकल्पं दोषाः 'ते' एकान्तानिवृत्त्यादयः 'समियुः आगच्छेयुः कथं?, नैव, किभूता दोषाः? इत्याह-भेदाभेदे च ये 'अत्यन्तं' सर्वथा जातिभिन्ने व्यवस्थिताः, नान्यदोषाः अन्यस्येत्यर्थः॥ ५२४ ॥ अत्राह-किश्चिदि'त्यादि, किश्चिद् यथा निवर्ततेऽवश्यं तस्यापि वस्तुनः, अन्यद्वा तथा न, न निवर्त्तते, 'अतः' अस्मात् निवर्तमानान्निवर्तमानभावात् तद्भेद एवात्र, इत्थं चैतदङ्गीकर्त्तव्यं, निवृत्तिरनिवृत्तिश्चेत्येतदन्यथा कथं ?, नैवेत्यभिप्रायः ॥ ५२५ ॥ अत्रोत्तरम्-'तस्ये'त्यादि, तस्येति निवर्तत इति 'योगसामर्थ्यात्' सम्बन्धसामर्थ्यात् भेद एवेति परवचनम् , अतस्तद्भेद एवेत्येतद्वाधितं, कथमित्याह-अभिन्नदेश इत्युपलक्षणम् , अभिन्नदेशकालस्वभावस्तस्येति, 'यत्' यस्मात् तद् व्याप्या हेतुभूतं तथोच्यते-तस्य निवर्तत इत्येवमभिधीयते ॥ ५२६ ॥ निगमयन्नाह-'अत' इत्यादि, अतस्तद्देद एवेति एतत् परोदितं प्रतीतिविमुखं वचः, कुतः? इत्याह-तस्यैव हि तथाभावात् , कारणात्, तन्निवृत्तीतरात्मकं यत इति | ॥५२७॥ इत्थं चैतदङ्गीकृत्यमित्याह-'नानुवृत्ती'त्यादिना-न अनुवृत्तिनिवृत्तिभ्यां प्रत्यक्षसिद्धाभ्यां विना यद् 'उपपद्यते'
सम्यग्घटते, कः ? इत्याह-तस्यैव हि तथाभावो वस्तुन इति, सूक्ष्मबुद्ध्या विचिन्त्यतामेतदिति ॥ ५२८ ॥ उपसंहरन्नाह'तस्यैवेत्यादि, तस्यैव तु तथाभावे सिद्धे सति तदेव हि यतस्तथा भवति, कारणमेव कार्यरूपतया, अतो न दोषो 'न: अस्माकं कश्चिदप्युपपद्यत इति । एतदुक्तं भवति-कथञ्चिदनिवर्तमानाभिन्नस्वभावं सन्निवर्त्तते, तथा निवर्तमानाभिन्नस्वभावं च कथञ्चिदवतिष्ठते इति, प्रतीतिसिद्धमेतदिति ॥ ५२९॥ किञ्च-'इत्थमित्यादि, इत्थमालोचनं चेदं स्वप्रतीतिसिद्ध,