________________
त्राह-असत्त्वात्केवलस्येह, भेदस्याभेदस्य वा, तथा 'सतश्च' विद्यमानस्य च भेदाभेदस्य जात्यन्तरात्मकस्य कथितत्वतः
कारणानिर्विषया विकल्पा इति ॥५१६॥ उपचयमाह-'यतश्चे'त्यादि, यतश्च तत् प्रमाणेन-प्रत्यक्षेणावगम्यते हि 'उभयाजात्मकं' अन्वयव्यतिरेकभाक् , अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् भेदादिविरोधादिति ॥५१७ ॥ दोषातिदेशमाह
एवं ही'त्यादिना-एवं युभयदोषादिदोषा अपि, उभयदोषः-संशय इत्येवमादयो, न दूषणं, कथमित्याह-सम्यगितरेतरव्यात्याऽत्यन्तजात्यन्तरत्वेन भेदाभेदप्रसिद्धित इति ॥५१८॥ यदनेनापाकृतं तदुपन्यस्यति-'एतेनेत्यादिना-एतेन' अनन्तरोदितेन 'एतत् वक्ष्यमाणलक्षणं 'प्रतिक्षिप्तं' निराकृतं यदुक्तं 'पूर्ववादिभिः सुबन्धुप्रमुखैः, कथमुक्तमित्याह-विहा- टू य' परित्यज्य अनुभवमविगानेन प्रवृत्तं मोहात् कुतर्कोत्थात् 'जातियुक्त्यनुसारिभिः' विकल्पमात्रवल्लभैरिति ॥५१९॥ | यदुक्तं तदाह-'द्रव्ये'त्यादिना-द्रव्यपर्याययोर्भेदे सति नैकस्योभयरूपता वस्तुनः, अभेदे अनयोरेवान्यतरस्थानं, पर्यायस्य द्रव्यस्य वा निवृत्तिरिति चिन्त्यतां कथम् ?, एकत्वान्नैवेत्यर्थः ॥५२०॥ एतदेवाह-'यदि'त्यादिना-यन्निवृत्तौ, सामान्ये, न यस्येह निवृत्तिर्वस्तुनः, 'तत्' निवर्तमानं 'ततः' अनिवर्तमानात् 'यतः' यस्मात् स्थानं, निवृत्तद्रव्यस्थानं, 'भिन्नम्' अन्यत् नियमतो दृष्टं, तथा प्रतीतेः, निदर्शनमाह-यथा 'कर्कः' अश्वविशेषः 'क्रमेलकात्' उष्ट्रादिति ॥ ५२१ ॥ प्रकृतयोजनमाह-'निवर्त्तत' इत्यादिना-निवर्त्तते 'पर्यायः' पिण्डादिः, न तु द्रव्यं मृदादि, ततो न 'स' पर्यायः अभिन्नो द्रव्यतः, किन्तु भिन्न एव, यतः अभेदे सति, किमित्याह-अनिवृत्तिः, पर्यायस्येति गम्यते, तत्स्वरूपवद्, विपर्ययो वा ॥ ५२२॥ एतच्च यथा प्रतिक्षिप्तं तथाऽऽह-'प्रतीत्यादिना-प्रतिक्षिप्तं चेदं, 'यत्' यस्मात् भेदाभेदपक्षः उक्तलक्षणः अन्य एव हि,
ASAARISUSRAHISHAM
शास.१३