________________
किञ्चिन्निवर्त्ततेऽवश्यं, तस्याप्यन्यत्तथा न यत् । अतस्तद्भेद एवात्र, निवृत्त्याद्यन्यथा कथम् ? ॥ ५२५ ॥ तस्येति योगसामर्थ्याद्भेद एवेति बाधितम् । अभिन्नदेशस्तस्येति, यत्तद्व्याप्या तथोच्यते ॥ ५२६ ॥ अतस्तद्भेद एवेति, प्रतीतिविमुखं वचः । तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम् ॥ ५२७ ॥ नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते । तस्यैव हि तथाभावः, सूक्ष्मबुद्ध्या विचिन्त्यताम् ॥ ५२८ ॥ तस्यैव तु तथाभावे, तदेव हि यतस्तथा । भवत्यतो न दोषो नः, कश्चिदप्युपपद्यते ॥ ५२९ ॥ इत्थमालोचनं चेदं, अन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् ॥ ५३० ॥ न च भेदोऽपि बाधायै, तस्यानेकान्तवादिनः । जात्यन्तरात्मकं वस्तु, नित्यानित्यं यतो मतम् ॥ ५३१ ॥ | प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिद्धैव तदेवेदमिति क्षितौ ॥ ५३२ ॥ न युज्यते च सन्यायादृते तत्परिणामिताम् । कालादिभेदतो वस्त्वभेदतश्च तथागतेः ॥ ५३३ ॥ एकान्तैक्येन नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावः ?, तदेतदुभयात्मकम् ॥ ५३४ ॥ तस्यैव तु तथाभावे, कथञ्चिद्भेदयोगतः । प्रमातुरपि तद्भावात्, युज्यते मुख्यवृत्तितः ॥ ५३५ ॥