________________
शास्त्र हारि० जैनमताधिकारे
भेदाभेदे|ऽनवस्थादिवारणं
॥७१॥
जात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम् । नियतत्वाद्विविक्तस्य, भेदादेश्चाप्यसम्भवात् ॥ ५१४ ॥ नाभेदो भेदरहितो, भेदो वाऽभेदवर्जितः । केवलोऽस्ति यतस्तेन, कुतस्तत्र विकल्पनम् ? ॥ ५१५ ॥ येनाकारेण भेदः किं, तेनासावेव ? किं द्वयम् ? । असत्त्वात्केवलस्येह, सतश्च कथितत्वतः ॥ ५१६ ॥ यतश्च तत्प्रमाणेन, गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् ॥ ५१७ ॥ एवं ह्युभयदोषादिदोषा अपि न दूषणम् । सम्यग्जात्यन्तरत्वेन, भेदाभेदप्रसिद्धितः ॥ ५१८ ॥ एतेनैतत्प्रतिक्षिप्तं, यदुक्तं पूर्ववादिभिः । विहायानुभवं मोहाजातियुक्त्यनुसारिभिः ॥ ५१९ ॥ द्रव्यपर्याययोर्भदे, नैकस्योभयरूपता । अभेदेऽन्यतरस्थाननिवृत्ती चिन्त्यतां कथम् ? ॥ ५२० ॥ यन्निवृत्तौ न यस्येह, निवृत्तिस्तत्ततो यतः । भिन्नं नियमतो दृष्टं, यथा कर्कः क्रमेलकात् ॥ ५२१ ॥ निवर्त्तते च पर्यायो, न तु द्रव्यं ततो न सः । अभिन्नो द्रव्यतोऽभेदेऽनिवृत्तिस्तत्वरूपवत् ॥ ५२२ ॥ प्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि। भेदाभेदविकल्पाभ्यां, हन्त ! जात्यन्तरात्मकः ॥ ५२३ ॥ जात्यन्तरात्मकं चैनं, दोषास्ते समियुः कथम् ? । भेदाभेदे च येऽत्यन्तं, जातिभिन्ने व्यवस्थिताः ॥५२४॥
SHOGAGASASUSASTROSAS
॥७१॥