SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ इतरेतरानुवेधरूपा एकान्तभेदेऽभेदे च युज्यते वस्तुन इति, कुतः ? इत्याह- 'अतिप्रसङ्गात् ' एकान्तभेवे सर्वभावानां व्याध्यापत्तेः, ऐक्याच्चैकान्ताभेदो, वाङ्मात्रत्वात्, तथा शब्दार्थानुपपत्तित इति ॥ ५०८ ॥ अनुपपत्तित इति तामेवा - भिधातुमाह- 'अन्योऽन्ये' त्यादि, अन्योऽन्यमिति 'यत्' यस्माद्भेदमाह, तथा शब्दशक्तिस्वाभाव्यात्, व्याप्तिश्चाह विपर्ययमभेदमित्यर्थः यस्मादेवं भेदाभेदे जात्यन्तरात्मके 'द्वयोः' द्रव्यपर्याययोस्तस्मादन्योऽन्यव्याप्तिसंभवो, नान्यथेति ॥ ५०९ ॥ उपसंहरति- 'एव' मित्यादि, एवं न्यायाविरुद्धे 'अस्मिन्' भेदाभेदे विरोधोद्भावनं नृणामेतद्विषयं 'व्यसनं' मात्सर्यं 'धीजडत्वं वा' बुद्धिजाड्यं वा 'प्रकाशयति' प्रकटीकरोति केवलं, नान्यत्किञ्चिदिति ॥ ५१० ॥ कथमित्याह - 'न्याया' दित्यादि, न्यायात् खलु विरोधो 'यः' तथाभवनक्षणः स विरोध इहोच्यते लोके, नान्य इति यद्वदेकान्तभेदादौएकान्तभेदेऽभेदे, तयोरेवाप्रसिद्धितः, द्रव्यपर्याययोः ॥ ५११ ॥ कथमप्रसिद्धिः ? इत्याह- 'मृद्रव्य मित्यादि, मृद्रव्यं 'यत्' यस्मात् न पिण्डादिधर्मान्तरविवर्जितं द्रव्यमात्रमेव केवलं, गम्यते क्वचिदिति योगः, यद्वा पिण्डादिधर्मान्तरं तेन विनिर्मुक्तं मृद्रव्येण, केवलमाकारमात्रमेव गम्यते क्वचिन्नैव, तथा प्रतीत्यभावादिति ॥ ५१२ ॥ यतश्चैवमतः किमित्याह'तत' इत्यादि, 'ततः' तस्मात् असत्तत्, 'तत्' मृद्रव्यपिण्डादि 'तथा' परस्परनिरपेक्षं 'न्यायात् तथाननुभवलक्षणात्, 'एकं च' एकमेव मृद्रव्यपिण्डादीत्येतदप्यसत्, कुतः ? इत्याह- 'उभयसिद्धित:' तथोभयोपलब्धेः यत एवम् 'अन्यत्र ' केवलभेदपक्षेऽभेदपक्षे वा 'अत:' तथाऽनुपलब्धिलक्षणात्कारणाद्विरोधः, किंविशिष्टः ? इत्याह- 'तद्भावापत्तिलक्षणः ' द्रव्यपर्यायाभावापत्तिलक्षण इति ॥ ५१३ ॥ प्रसङ्गनिराकरणार्थमाह
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy