________________
शास्त्र०
हारि० जैनमता धिकारे
॥ ६८ ॥
स्वभाव' उक्तलक्षणोत्पादव्ययाधारस्वभावं धौव्यमित्यपि न पुनरन्यथाभूतम् इत्थं चैतदङ्गीकर्त्तव्यमन्यथा - यद्येवं नेष्यते ततः 'त्रितयाभाव' उत्पादव्यययोरवस्तु तु विरुद्धो (र्वस्त्वनुरुद्धयो) रसत्त्वाद्वस्तुनोऽपि तदनुरुद्धस्य, परिणामित्वादिति, यत एवमत एकदैकत्र किं न 'तत्' उत्पादादि १, स्यादेव तस्यैव तथास्वभावत्वादिति ॥ ४८९ ॥ उपसंहरन्नाह'एकत्रैवे' त्यादि, एकेत्रैवैकदैवैतत् 'इत्थम्' उक्तेन न्यायेन त्रयमपि स्थितम् — उत्पादादि, एतच्च न्याय्यं, 'भिन्ननिमित्तत्वात् अभूतभवनभूताभवनोभयाधारस्वभावत्वभेदात्, 'तदभेदे' निमित्ताभेदे न युज्यते एकदैवैतत्रयमिति ॥ ४९० ॥ ततः किमित्याह - 'इष्यते चेत्यादि, इष्यते च 'परैः' सौगतैर्मोहाद्धेतोः 'तत्' त्रितयं, क ? इत्याह- 'क्षणस्थितिधर्मिणि' क्षणस्थितिस्वभावे वस्तुनि, कथमिष्यते ? इत्याह- अभावेऽन्यतमस्याप्युत्पादादेः 'तत्र' वस्तुनि 'तत्त्वं' क्षणस्थितिधर्मकत्वं न 'यत्' यस्माद्भवेत्, तथाहि - क्षणस्थितेः उत्पन्नस्योर्ध्वाधो न भवति, नान्यथा ॥ ४९१ ॥ पराभिप्रायमभिधातुमाह'भावे' त्यादि, भावमात्रं तदिष्टं चेत्, सद्-वस्तु तत्राह - तद्भावमात्रमित्थंभूतमेवेति, ( कुतः ? निर्विशेषणत्वात् ) क्षणस्थितिस्वभावं तु सविशेषणं न ह्युत्पादव्ययौ विना, सावधिकत्वात् ॥ ४९२ ॥ अत्राह - ' तदित्थ' मित्यादि, 'तत्' भावमात्रम् ' इत्थंभूतमेवे 'ति क्षणस्थितिस्वभावमेवेति, अत्रोत्तरं - 'द्राग' झटित्येव 'नभस्तः' आकाशात् न जातुचित् उत्प त्तिमन्तराऽप्युत्पादसिद्धेः, भूत्वाऽभावश्च द्वितीयक्षणे नाशोऽपि 'तदेव' भावनामात्रमेवेति न लौकिकं तदभवनस्यैव लोके नाशरूढेः ॥ ४९३ ॥ परोक्तपरिहारमेवाह - ' वासने' त्यादि, वासनाहेतुकं यच्च पूर्वपक्षवादिना शोकादि परिकीर्त्तितं यत्नतः सौगतेन तदयुक्तं यतः 'चित्रा' नानाप्रकारा शोकादिजनकत्वेन 'सा' वासना अनन्तरज्ञानक्षणरूपा, न ज्ञानक्ष
ज्यात्मके तत्त्वे वास
नाहेतुकतानिरासः
॥ ६८ ॥