SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्वसिद्धान्तनीत्या, 'तस्य' स्याद्वादिनो न 'मानं' प्रमाणं मानमेव यत्, स्यान्मानमिति सिद्धान्ताद् ॥ ४८३ ॥ उपचयमाह - 'संसारी' त्यादिना - संसार्यपि जीवो न संसारी, तथाऽपि मुक्तोऽपि तत्त्वदृष्ट्या न स एव हि मुक्त एव, कथमित्याह- 'तदतद्रूपभावेन' स्याद्वादतस्तदतदात्मकत्वात् सर्वस्य एवं सर्वमेव संसारे अव्यवस्थितमस्येत्यभिप्रायः ॥ ४८४ ॥ अत्र सिद्धान्तमधिकृत्याह - 'ते आहु' रित्यादि, 'ते' जैनाः 'आहु:' प्रतिपादयन्ति - मुकुटोत्पादः विवक्षितः न घटानाशधर्मकः, किन्तु घटनाशस्वभाव एव तत्रैव तद्विभावात्, तथा 'स्वर्णात्' काञ्चनात् नचान्य एव, तथाऽनुपलब्धेः, 'इति' एवं न विरुद्धं मिथस्त्रयं, न्यायानुभवसिद्धत्वादिति ॥ ४८५ ॥ एतदेव समर्थयन्नाह - 'नचे' त्यादिना - न चोत्पादव्ययौ 'न स्तः' न विद्येते, कल्पितत्वात् कुतः ? इत्याह- ध्रौव्यवदविगानेन 'तद्धिया' उत्पादव्ययधिया 'गतेः' परिच्छेदात्, तथाऽपि 'नास्तित्वे तु' नास्तित्व एव 'तयोः' उत्पादव्यययोरभ्युपगम्यमाने धौव्यं 'तत्त्वत:' परमार्थतोऽस्तीति न प्रमा, उत्पादादितुल्य योगक्षेम त्वादेव इति ॥ ४८६ ॥ द्रव्या ( पर्यया) स्तिकमतं निराचिकीर्षयन्नाह - 'न नास्तीत्यादि, न नास्ति धौव्यमप्येवं, किं तु तदस्त्येव, कुतः ? इत्याह- अविगानेन 'तद्गतेः' धौव्यपरिच्छेदात्, 'अस्याश्च' धौव्यगतेरविगानसिद्धाया भ्रान्ततायां सत्यां किमित्याह-न 'जगत्य भ्रान्ततागतिः' त्रैलोक्येऽभ्रान्ततापरिच्छित्तिः, उत्पादव्ययगत्योरप्यविगानसिद्धतां विहायाधिकलक्षणायोगात् ॥ ४८७ ॥ परोक्तदूषणपरिहारायाह - 'उत्पाद' इत्यादि, उत्पादोऽभूतभवनं नाविशेषेणैव, किन्तु 'स्वहेत्वन्तरधर्मकं' स्वयं हेतुव्ययस्वभावं, कुत एतत् ? - तथा प्रतीतियोगेन, अन्यत्र व्यय बुद्ध्यसिद्धेः, तथा विनाशः 'तद्विपर्यय:' भूताभवनम् अन्यभवनस्वभावमित्यर्थः ॥ ४८८ ॥ तथैत' दित्यादि, तथैतत् 'उभयाधार
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy