SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० जैनमता धिकारे 11 80 11 | इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि । अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् ॥ ४९१ ॥ भावमात्रं तदिष्टं चेत्तदित्थं निर्विशेषणम् । क्षणस्थितिस्वभावं तु, नद्युत्पादव्ययौ विना ॥ ४९२ ॥ तदित्थंभूतमेवेति, द्राग्नभस्तो न जातुचित् । भूत्वाऽभावश्च नाशोऽपि तदेवेति न लौकिकम् ॥४९३ ॥ वासनाहेतुकं यच्च, शोकादिपरिकीर्त्तितम् । तदयुक्तं यतश्चित्रा, सा न जात्वनिबन्धना ॥ ४९४ ॥ सदा भावेतरापत्तिरेकभावाच्च वस्तुनः । तद्भावेऽतिप्रसङ्गादि, नियमात्संप्रसज्यते ॥ ४९५ ॥ 'अत्रापि 'श्यात्मकतत्त्ववादे अभिदधति 'अन्ये' सौगतादयः 'विरुद्धं हि' विरुद्धमेव 'मिथ' परस्परं 'त्रयम्' उत्पादादि, यत एवम् अतः 'एकत्रैव' वस्तुनि 'एकदा ' एकस्मिन् काले न 'एतत्' त्र्यं घटां प्राश्चति जातुचित् कदाचिद् घटइत्यर्थः ॥ ४८० ॥ एतदेव स्पष्टयति 'उत्पाद' इत्यादिना - उत्पादः 'अभूतभवनम्' अभूतप्रादुर्भावः विनाशः 'तद्विपर्ययः'भूताभवनलक्षणः ध्रौव्यं च 'उभयशून्यं' उत्पादविनाशरहितं 'यत्' यस्मात् 'तत्' तस्मादेकदैकत्र त्र्यं कथं ? लक्षणभेदात्, नैवेत्यर्थः ॥ ४८१ ॥ अनन्तरोदितसाधनदोषमाह - 'शोक' इत्यादिना - शोकप्रमोदमाध्यस्थ्यं राजपुत्र्यादेः उक्तं यच्चात्र साधनं प्रागू जैनेन तदपि 'असाम्प्रतं' अशोभनं कथमित्याह - 'यत्'यस्मात् 'तत्' शोकादि 'वासनाहेतुकम् ' आन्तरवासनानिमित्तं मतम्' इष्टं, न वस्तुनिमित्तं सर्वेषां शोकादिप्रसङ्गात् ॥ ४८२ ॥ उपचयमाह - 'किश्च स्याद्वे' त्यादि, किञ्च 'स्याद्वादिनः' अनेकान्तवादिनो नैव 'युज्यते' घटते निश्चयः 'क्वचित्' वस्तुनि कथमित्याह - 'खतन्त्रापेक्षया' त्र्यात्मके तत्त्वे वास नाहेतुकतानिरासः ॥ ६७ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy