________________
अत्राप्यभिदधत्यन्ये, विरुद्धं हि मिथस्त्रयम् । एकत्रैवैकदा नैतद्, घटां प्राञ्चति जातुचित् ॥ ४० ॥
उत्पादोऽभूतभवनं, विनाशस्तद्विपर्ययः । ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ? ॥ ४८१ ॥ है शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् । तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं मतम् ॥ ४८२ ॥ किश्च स्याद्वादिनो नैव, युज्यते निश्चयः क्वचित् । खतन्त्रापेक्षया तस्य, न मानं मानमेव यत् ॥४८॥ संसार्यपि न संसारी, मुक्तोऽपि न स एव हि । तदतद्रूपभावेन, सर्वमेवाव्यवस्थितम् ॥ ४८४ ॥ त आहुर्मुकुटोत्पादो, न घटानाशधर्मकः । वर्णान्नवाऽन्य एवेति, न विरुद्धं मिथस्त्रयम् ॥ ४८५ ॥ न चोत्पादव्ययौ न स्तो, धौव्यवत् तद्धिया गतेः।नास्तित्वे तु तयो/व्यं, तत्त्वतोऽस्तीति न प्रमा ४८६ |न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः । अस्याश्च भ्रान्ततायां न, जगत्यनान्ततागतिः॥ ४८७ ॥ हूँ उत्पादोऽभूतभवनं, खहेत्वन्तरधर्मकम् । तथा प्रतीतियोगेन, विनाशस्तद्विपर्ययः॥ ४८८ ॥
तथैतदुभयाधारस्वभावं ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव, एकदैकत्र किं न तत् ? ॥ ४८९॥ एकत्रैवैकदैवैतदित्यं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्चत्वात्तदभेदे न युज्यते ॥ ४९० ॥
SAUSIASISARUSSASSASSA
शा.स.१२