SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ शास्त्र ० हारि० जैनमता घिकारे ॥ ६६ ॥ | नेयानुगुण्येन अभिप्रायत इत्युक्ततत्त्वाभिधानबुद्ध्या लक्ष्यत एव एकेन 'तत्त्ववेदिना' बुद्धेन इति सुगतमतवार्त्ताधिकारः ॥ ४७६ ॥ वार्त्तान्तरमाह अन्ये खाहुरनाद्येव, जीवाजीवात्मकं जगत् । सदुत्पादव्ययधौव्ययुक्तं शास्त्रकृतश्रमाः ॥ ४७७ ॥ घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ ४७८ ॥ पयोत्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥ ४७९ ॥ 'अन्ये त्वि'त्यादि, 'अन्ये तु' जैना आहुः, किमित्याह - अनाद्येव, न तु कृत्रिमं किं तत् ? इत्याह-जीवाजीवात्मकं 'जगत्' त्रैलोक्यमेव, एतदेव विशेष्यते - 'सदुत्पादव्ययधौव्ययुक्तं निरुपचरितोत्पत्त्यादिमत् 'शास्त्रकृतश्रमाः' विपश्चितः 'अन्ये' इति ॥ ४७७ ॥ तन्मतमुपन्यस्यति - 'घटेत्यादिना - घटमौलिसुवर्णार्थी, मौलि:- मुकुटः, नाशोत्पादस्थितिषु घटमौलिसुवर्णानां अयं जनो, राजपुत्र्यादीति योगः, किमित्याह - शोकप्रमोद माध्यस्थ्यं याति 'सहेतुकं 'सनिमित्तं यातीति त्रयात्मकं तत्त्वम् ॥ ४७८ ॥ प्रकारान्तरेणैव तदेवाह - 'पय' इत्यादिना - ' पयोव्रतः क्षीरभोजनत्रतः 'न दध्यन्ति' न दधि भुङ्क्ते, कथश्चित्तद्भेदात् एवं न पयोऽत्ति दधिव्रतः, उक्तोपपत्तेरेव, तथा 'अगोरसव्रत' आरनालादिभोजनत्रतः नोभे-न पयोदधिनी अत्ति, उभयोर्गोरसात्, यस्मादेवं तस्मात्तत्त्वं त्रयात्मकं, निमित्तभेदमन्तरेण प्रयोजनभेदासिद्धेः ॥ ४७९ ॥ वार्त्तान्तरमाह - 'अत्रापीत्यादिना - उत्पादाद्यात्मकता तत्त्वानां ॥ ६६ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy