SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ACCESSAGAR एवं च शून्यवादोऽपि, तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो, लक्ष्यते तत्त्ववेदिना ॥ ४७६ ॥ 'अत्रापी'त्यादि, अत्राप्यभिदधति 'अन्ये वादिनः-किमित्थं 'तत्त्वसाधनं शून्यत्वसाधनं प्रमाणं विद्यते किञ्चित् वस्तु सत् ? आहोश्विच्छून्यमेव?, न विद्यत इत्यर्थः॥ ४७०॥ 'शून्य'मित्यादि, शून्यं 'चेत् यदि विद्यते प्रमाणं सुस्थितं तत्त्वम् शून्यत्वम् , प्रामाणिकमित्युपहसति, अस्ति चेदथ प्रमाणमत्र शून्यता कथं ?, नैवेत्यभिप्रायः । तस्यैव' प्रमाणस्य ननु 'सद्भावात्' विद्यमानत्वात् 'इति' एतत् सम्यग्विचिन्त्यतां, माध्यस्थ्येन ॥ ४७१ ॥ अत्रैवाक्षेपपरिहारावभिधातुमाह'प्रमाणे त्यादि, प्रमाणमन्तरेणापि व्यवस्थापकं स्यादेवं तत्त्वसंस्थितिः शून्यत्वेन, अत्र समाधिः-अन्यथा न तत्त्वसंस्थितिः, 'इति' एवं 'सुव्यक्तं' स्पष्टम् 'इदं'तत्त्वेतरस्थापनम् ईश्वरचेष्टितं, प्रमाणाभावाविशेषात् ॥ ४७२ ॥ पुनरप्याह'उक्त'मित्यादि, 'उक्तं' शून्यताऽभिधायि 'विहाय' मुक्त्वा मानं चेच्छून्यताऽन्यस्य वस्तुनः प्रमेयस्य रूपादेः, अत्रोत्तरं'शून्यत्वे' असत्त्वे प्रतिपाद्यस्य श्रोत्रादेः प्रमेयस्य असत्त्व इत्यर्थः, ननु निश्चितं व्यर्थः परिश्रमः, श्रोत्रसत्त्वात् ॥ ४७३ ॥ एवमप्यनिष्टापत्तिं दर्शयति-तस्याप्येत्यादिना, तस्य-श्रोतुः प्रश्नयितुर्वा अशून्यतायां-सत्त्वे प्राश्निकानां बहुत्वतः, तेषामपि प्रतिपाद्यत्वात् , 'प्रभूताशून्यतासिद्धिः' प्रभूतानामशून्यत्वप्रतिष्ठा अनिष्टा संप्रयुज्यते बलादेवोक्तन्यायात् ॥ ४७४ ॥ किञ्च-'यावता'मित्यादि, 'यावा' प्रमाणामस्ति 'तन्मानं' शून्यताविषयं 'प्रतिपाद्याः' प्रतिवादिनः, तथा च 'ये'* केचन सन्ति ते सर्व एव न सन्ति 'इति' एवं 'प्रभूतानां' वस्तूनाम् 'अशून्यता' असत्तेति निगमनम् ॥ ४७५ ॥ अस्य | विषयविभागाभिधित्सयाऽऽह-एवं चेत्यादि, एवं सति शून्यवादोऽपि उक्तलक्षणः 'तदिनेयानुगुण्यतः' शून्यवादिवि
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy