________________
ACCESSAGAR
एवं च शून्यवादोऽपि, तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो, लक्ष्यते तत्त्ववेदिना ॥ ४७६ ॥
'अत्रापी'त्यादि, अत्राप्यभिदधति 'अन्ये वादिनः-किमित्थं 'तत्त्वसाधनं शून्यत्वसाधनं प्रमाणं विद्यते किञ्चित् वस्तु सत् ? आहोश्विच्छून्यमेव?, न विद्यत इत्यर्थः॥ ४७०॥ 'शून्य'मित्यादि, शून्यं 'चेत् यदि विद्यते प्रमाणं सुस्थितं तत्त्वम् शून्यत्वम् , प्रामाणिकमित्युपहसति, अस्ति चेदथ प्रमाणमत्र शून्यता कथं ?, नैवेत्यभिप्रायः । तस्यैव' प्रमाणस्य ननु 'सद्भावात्' विद्यमानत्वात् 'इति' एतत् सम्यग्विचिन्त्यतां, माध्यस्थ्येन ॥ ४७१ ॥ अत्रैवाक्षेपपरिहारावभिधातुमाह'प्रमाणे त्यादि, प्रमाणमन्तरेणापि व्यवस्थापकं स्यादेवं तत्त्वसंस्थितिः शून्यत्वेन, अत्र समाधिः-अन्यथा न तत्त्वसंस्थितिः, 'इति' एवं 'सुव्यक्तं' स्पष्टम् 'इदं'तत्त्वेतरस्थापनम् ईश्वरचेष्टितं, प्रमाणाभावाविशेषात् ॥ ४७२ ॥ पुनरप्याह'उक्त'मित्यादि, 'उक्तं' शून्यताऽभिधायि 'विहाय' मुक्त्वा मानं चेच्छून्यताऽन्यस्य वस्तुनः प्रमेयस्य रूपादेः, अत्रोत्तरं'शून्यत्वे' असत्त्वे प्रतिपाद्यस्य श्रोत्रादेः प्रमेयस्य असत्त्व इत्यर्थः, ननु निश्चितं व्यर्थः परिश्रमः, श्रोत्रसत्त्वात् ॥ ४७३ ॥ एवमप्यनिष्टापत्तिं दर्शयति-तस्याप्येत्यादिना, तस्य-श्रोतुः प्रश्नयितुर्वा अशून्यतायां-सत्त्वे प्राश्निकानां बहुत्वतः, तेषामपि प्रतिपाद्यत्वात् , 'प्रभूताशून्यतासिद्धिः' प्रभूतानामशून्यत्वप्रतिष्ठा अनिष्टा संप्रयुज्यते बलादेवोक्तन्यायात् ॥ ४७४ ॥ किञ्च-'यावता'मित्यादि, 'यावा' प्रमाणामस्ति 'तन्मानं' शून्यताविषयं 'प्रतिपाद्याः' प्रतिवादिनः, तथा च 'ये'* केचन सन्ति ते सर्व एव न सन्ति 'इति' एवं 'प्रभूतानां' वस्तूनाम् 'अशून्यता' असत्तेति निगमनम् ॥ ४७५ ॥ अस्य | विषयविभागाभिधित्सयाऽऽह-एवं चेत्यादि, एवं सति शून्यवादोऽपि उक्तलक्षणः 'तदिनेयानुगुण्यतः' शून्यवादिवि