SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० ॥ ६५ ॥ ब्रुवते शून्यम् 'अन्ये तु' बौद्धविशेषा एव सर्वमेव वस्तु 'विचक्षणाः' पण्डिताः, कथमित्याह-न नित्यमर्थाक्रियायोगात् नाप्यनित्यमुत्पादाद्यभावात् 'यत्' यस्माद् वस्तु 'युक्त्या' विचार्यमाणम् 'उपपद्यते' घटते ॥ ४६७ ॥ एतदेव प्रकटयन्नाह - नित्य' मित्यादि, नित्यं नोपपद्यते अर्थक्रियायोगात्, अयोगश्च क्रमाक्रमविरोधत इति, अनित्यमपि च परमार्थत उत्पादव्ययाभावान्न जातुचिदुपपद्यते ॥ ४६८ ॥ कथं तर्ह्यत्पादव्ययबुद्धिः ? इत्यत्राह - 'उत्पादे 'त्यादि, उत्पादव्ययबुद्धिश्च लौकिकी, परमार्थेन भ्रान्ता, न वस्तुमती, निदर्शनमाह - 'आनन्दादिकारणं' हर्षविषादनिमित्तं 'कुमार्याः' अननुभूतसंभोगायाः 'स्वप्नवत्' स्वप्न इव ज्ञेया 'पुत्रजन्मादिबुद्धिवत्' पुत्रजन्ममरणबुद्धिवद्, अनालम्बनः ॥४६९ ॥ वार्त्तान्तरमभिधातुमाह - अत्राप्यभिदधत्यन्ये, किमित्थं तत्त्वसाधनम् । प्रमाणं विद्यते किञ्चिदाहोश्चिच्छ्रन्यमेव हि ? ॥ ४७० ॥ शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् ? । तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यताम् ॥४७१॥ प्रमाणमन्तरेणापि, स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वर चेष्टितम् ॥ ४७२ ॥ उक्तं विहाय मानं चेच्छ्रन्यताऽन्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य, ननु व्यर्थः परिश्रमः ॥ ४७३ ॥ तस्याप्यशून्यतायां च, प्रानिकानां बहुत्वतः । प्रभूता शून्यतापत्तिरनिष्ठा संप्रसज्यते ॥ ४७४ ॥ यावतामस्ति तन्मानं, प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति, प्रभूतानामशुन्यता ॥ ४७५ ॥ विज्ञानवादनिरासः शून्यतानिरासश्च ॥ ६५ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy