________________
है अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ ४६४ ॥ है विज्ञानमात्रमप्येवं, बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य, यद्वा तद्देशनाऽर्हतः ॥ ४६५ ॥
न चैतदपि न न्याय्यं, यतो बुद्धो महामुनिः । सुवैद्यवद्विना कार्य, द्रव्यासत्यं न भाषते ॥ ४६६ ॥ ब्रुवते शून्यमन्ये तु, सर्वमेव विचक्षणाः। न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते ॥ ४६७ ॥ नित्यमर्थक्रियाऽभावात्क्रमाक्रमविरोधतः । अनित्यमपि चोत्पादव्ययाभावान्न जातुचित् ॥ ४६८॥ | उत्पादव्ययबुद्धिश्च, भ्रान्ताऽऽनन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया, पुत्रजन्मादिबुद्धिवत् ॥ ४६९॥ __ 'अन्ये वि'त्यादि, 'अन्ये तु' वादिनोऽभिदधत्येवं यदुत 'एतदास्थानिवृत्तये' सत्त्वहिताय 'क्षणिक सर्वमेवे'त्येवं बुद्धे. नोक्तं, न 'तत्त्वतः' परमार्थेन ॥ ४६४ ॥ वादान्तरविषयप्रतिपादनायाह-विज्ञाने'त्यादि, विज्ञानमात्रमप्येवं क्वचित् बाह्यसङ्गनिवृत्तये, सामान्येन, 'विनेयान् शिष्यान् कांश्चिदाश्रित्य करुणयैव, 'यद्वेति विशेषप्रयोजनं तद्देशनाऽर्हतः, स्थित ज्ञानान् देशनायोग्यानिति ॥ ४६५ ॥ एतच्च युक्तमेवेत्यभिधातुमाह-'न चैतदित्यादि, न चैतदपि न न्याय्यं यदनन्तरमुक्तं, कुतः?-यतो बुद्धो 'महामुनिः' विशिष्टज्ञानवान् , यत एवमतः सुवैद्यवत् आतुरमधिकृत्य विना 'कार्य'तत्स्वेदापनयनादि, 'द्रव्यासत्यं वितथमनुपकारकारकं न भाषते, कारणाभावात् ॥४६६ ॥ वार्तान्तरमधिकृत्याह-'ब्रुवत'इत्यादि,
RSASREALRESS