________________
शास्त्र हारि०
SOCORROS
॥६४॥
ज्ञानस्य, हेतुफलभावेन ॥ ४५८ ॥ अभ्युपगम्य दोषान्तरमाह-'ग्रहणेऽपी'त्यादिना-ग्रहणेऽप्यर्थस्य यदा ज्ञानमपैति-वि- अन्तक्षयेनश्यत्युत्पत्त्यनन्तरं तदा'तत् ज्ञानं 'तस्य' अर्थस्य जानाति 'क्षणिकत्वम्' उत्पत्त्यनन्तरापवर्गित्वं कथं ननु?, नैवेत्यर्थः क्षणात् ॥४५९॥ पराभिप्रायमाशङ्कय परिहरति 'तस्यैवे'त्यादिना-'तस्यैव' अर्थस्य तत्स्वभावत्वात् 'खात्मनैव' ज्ञानात्मनैव जानाति क्षणक्षयिक्षणिकत्वं, कुतः?-'तदुद्भवात् क्षणिकस्वभावादादुत्पत्तेः, निदर्शनमाह-यथा नीलादि जानाति 'ताद्रूप्यात्' विषय-12 तानिरास: सारूप्यादिति, अत्रोत्तरं-नैतत् यदुक्तं परेण, नीत्यैव, मिथ्यात्वसंशयात् , क्षणिकत्वबोधे शुक्ले शखे पीतबोधदर्शनादिति ॥४६०॥ अनुमानज्ञानस्य नीत्यैतन्निराकरोति 'न चापी'त्यादिना-न चापि स्वानुमानेन जानाति क्षणिकत्वं, यथा मद्रूपमनित्यमेवमयमपीति, कुतः इत्याह-'धर्मभेदस्य'चेतनेतररूपस्य सम्भवात् , अतः कथंचित्ताद्रूप्येऽपि तथा तादूप्ये न विरोधः, दोषान्तरमाह-'लिङ्गधर्मातिपाताच' स्वानुमानपक्षे तदात्मन एव, कुतः? इत्याह-तत्वभावाद्ययोगतः। तस्यार्थस्य न तजातु स्वभावो, नापि कार्य, न वाऽन्येन गम्यत इति सम्बन्धस्मरणाद्यभाव इति ॥४६१॥ दोषान्तरमाह'नित्यस्य'त्यादिना-नित्यस्यार्थस्य क्रियाऽयोगोऽपि व्यवहारसाधनाभावोऽप्येवं सति युक्त्या न गम्यते, नित्यस्यैवाज्ञानात् , एतदेवाह-सर्वमेवाविशेषेण विकल्पकमविकल्पकं च विज्ञानं क्षणिकं यतः, ततो न तेनार्थव्यवस्थेत्यभिप्रायः॥ ४६२ ॥ अक्षणिकस्यार्थक्रियामभिधातुमाह-तथा चित्रस्वभावत्वात् तथा परिणामेन न चार्थस्य न युज्यते, किन्तु युज्यत एव, केत्याह-अर्थक्रियाग्रयोजनं, ननु न्यायात्, किं विशिष्टा? इत्याह-क्रमाक्रमविभाविनी, जलाद्यानयनसुखदुःखज्ञानजननादिरूपा ॥४६३ ॥ वार्तान्तरममिधित्सुराह
SOCIAIS
॥६४॥