________________
नादावेति यथोदितं पूर्वसूरिभिः॥४५२॥ किमुदितमित्याह-'अन्त'इत्यादि, 'अन्ते क्षयेक्षणात् अन्ते नाशदर्शनात् 'आदी' उत्पत्तिकाले 'क्षयः' नाशः अदृष्टः सन्ननुमीयते, अनश्वरस्यान्तेऽपि तदयोगात् , अग्रहकारणमाह-'सदृशेनावरुद्धत्वात् तत्सदृशस्यैवोत्पत्तेः 'तबहात्' [विसदृशग्रहादेव 'तद्ग्रहः' आद्यक्षयाग्रह इत्यर्थः॥४५३॥ इहोत्तरममिधातुमाह-एतदि'त्यादि, एतदपि यदुक्तं परेण 'असदेवेति' अप्रभवमेव, कथमित्याह-सदृशो भिन्न एव यत् सः, नाभिन्नोऽपि, ततः किमित्याह-भेदामहे सति कथं 'तस्य' सहशस्य 'तत्स्वभावत्वतः भिन्नस्वभावत्वादेव 'ग्रहः' अवगमः, न हिनीलत्वे गृहीते तत्स्वभावस्याग्रहः ॥ ४५४ ॥ पराभिप्रायमाह-'तदर्थे' त्यादिना-'तदर्थनियतः विवक्षितैकक्षणार्थविषय इत्यर्थः, असौ' ग्रहः परिच्छेदो 'यत्' यस्मात् 'भेदं नानातालक्षणम् 'अन्याग्रहाद्धि' अन्याग्रहादेव' तत् तस्मान्न गृह्णाति, तत्त्वतस्त्वस्त्येव स इति चेदत्रोत्तरं-'तुल्यः सदृशो गृह्यमाणः 'अपरेण' अतीतेनेति कुतो 'गतिः' परिच्छित्तिः?, नैवेत्यर्थः॥४५५॥ अगतौ दोषमाह-'तथेत्यादिना-'तथागतेः' भेदपरिच्छित्तः, अभावे च सति किमि-10 त्याह-वचस्तुच्छं' असारमिदं ननु, यदुत सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः इति, आकालमेव सादृश्यागतेरिति भावः॥ ४५६ ॥ दोषान्तरमाह-'भाव'इत्यादिना-भावे च 'अस्याः' गतेर्बलादेकं कथञ्चित् 'अनेकग्रहणात्मक' पूर्वापरग्रहणरूपम् अन्वयि ज्ञानमेष्टव्यम् , अन्यथा तथागत्यभावात् , यत एवं सर्व क्षणिकं कुतः?, यथोक्तज्ञानस्यैवान्वयिकत्वात् ॥ ४५७॥ दोषान्तरमाह-'ज्ञाने'त्यादिना-ज्ञानेन गृह्यते च 'अर्थ' रूपादिलक्षणः, न चापि 'परदर्शने' बौद्धमते 8 स्वनीत्या कदाचिदपि सर्वकालमेव 'तत्त्वतः' परमार्थत इति योगः, कुतः? इत्याह-तदभावे तु' अर्थाभाव एव तद्भावात्