________________
अन्तक्षये
क्षणात्
क्षणक्षयितानिरासः
शास्त्र
तथागतेरभावे च, वचस्तुच्छमिदं ननु । सदृशेनावरुद्धत्वात्तद्हाद्धि तदग्रहः ॥ ४५६ ॥ हारि०||भावे चास्या बलादेकमनेकग्रहणात्मकम । अन्वयिज्ञानमेष्टव्य, सर्व तत्क्षणिकं कृतः॥४५७ । ॥६३॥ |ज्ञानेन गृह्यते चार्थो, न चापि परदर्शने । तदभावे तु तद्भावात्कदाचिदपि तत्त्वतः ॥ ४५८ ॥
ग्रहणेऽपि यदा ज्ञानमपैत्युत्पत्त्यनन्तरम् । तदा तत्तस्य जानाति, क्षणिकत्वं कथं ननु ? ॥ ४५९ ॥ तस्यैव तत्स्वभावत्वात्स्वात्मनैव तदुद्भवात् । त(य)था नीलादि तादूप्यान्नैतन्मिथ्यात्वसंशयात् ॥४६०॥ न चापि स्वानुमानेन, धर्मभेदस्य संभवात् । लिङ्गधर्मातिपाताच्च, तत्स्वभावाद्ययोगतः ॥ ४६१ ॥ नित्यस्यार्थक्रियाऽयोगोऽप्येवं युक्त्या न गम्यते । सर्वमेवाविशेषेण, विज्ञानं क्षणिकं यतः॥ ४६२ ॥ तथा चित्रस्वभावत्वान्न चार्थस्य न युज्यते । अर्थक्रिया ननु न्यायात्क्रमाक्रमविभाविनी ॥ ४६३ ॥
'अन्त'इत्यादि, 'अन्ते क्षयेक्षणं च' अन्ते नाशदर्शनं च, किमित्याह-'आद्यक्षणक्षयप्रसाधनम् आद्यस्य क्षणस्य नाशसाधनं, यत्प्रारब्धं, 'तस्यैव' वस्तुनः 'तत्वभावत्वात् नाशस्वभावत्वात् युज्यते न कदाचन, अतत्स्वभावत्वापत्तेरिति ॥४५१॥ एतदेव समर्थयन्नाह-आदा'वित्यादि, 'आदौ प्रथमक्षण एव 'क्षयखभावे च' नाशस्वभावे च 'तत्र' वस्तुनि अन्ते दर्शनं कथं क्षयस्य,? किं नादावेव इति भावः। परामिप्रायमाह-तुल्यापरापरोत्पत्तिविप्रलम्भात् , अन्ते,
SAUSSCHUSHUSHUSHUSHUSHISH
॥६३॥