SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ SANGREENERA मश्च दध्येव 'यत्' यस्मादृष्टं, किंभूतमित्याह-'गोरसान्वितं सत्स्वरूपानुवेधि, न तु तैलादि, तदत्यन्तभिन्नं, यत एव मतः सिद्धः परिणामः, किंभूतः? इत्याह-'अन्वयावहः' अन्वयप्रापक इति ॥ ४४८॥ एतत्प्रतिबद्धमेवाभिधातुमाह 'नासदि'त्यादि, न 'असत् एकान्ततुच्छं 'सज्जायते' अतुच्छं जायते 'जातु' कदाचित् , अत्रोपपत्तिः-शत्तयभावादतिव्याप्तेरिति, न हि तुच्छस्य विवक्षितातुच्छजनने शक्तिः, तदभाव(वा)विशेषात् , तद्वत्तदन्यभवनापत्तेरित्यर्थः, न वा सजायतेऽसत् सर्वथैव हि, न कदाचित् जायते, अत्राप्युपपत्तिः-सत्वभावत्वहानितः, सन् हि सरस्वभावं नासद्भवितुमर्हति, सत्स्वभावत्वविरोधादित्यभिप्रायः॥४४९॥ प्रस्तुतानुसारेणोपसंहरन्नाह–'नित्येतरदि'त्यादि, 'नित्येतरत्' नित्यानित्यम् 'अत:' असदादेः सदाधनापत्तेः 'न्यायात्' सद्विचारेण, 'तत्तथाभावतो हि तस्यैव तथाभवनेन 'तत्' वस्तु प्रतीतिसचिवात्सम्यग् न्यायात्, परिणामेन गम्यत इति ॥ ४५०॥ पक्षान्तरमधिकृत्याहअन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वात् , युज्यते न कदाचन ॥ ४५१ ।। आदौ क्षयखभावे च, तत्रान्ते दर्शनं कथम् ? । तुल्यापरापरोत्पत्तिविप्रलम्भाद्यथोदितम् ॥ ४५२ ॥ अन्ते क्षयेक्षणादादौ, क्षयोऽदृष्टोऽनुमीयते । सदृशेनावरुद्धत्वात्तद्रहाद्धि तदग्रहः ॥ ४५३ ॥ दएतदप्यसदेवेति, सदृशो भिन्न एव यत् । भेदाग्रहे कथं तस्य, तत्स्वभावत्वतो ग्रहः ? ॥ ४५४ ॥ तदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् । न गृह्णातीति चेत्तुल्यः, सोऽपरेण कुतो गतिः ? ॥ ४५५॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy