________________
शास्त्र ० हारि०
॥ ६२ ॥
नासत् सज्जायते जातु, सच्चासत्सर्वथैव हि । शक्त्यभावादतिव्याप्तेः, सत्स्वभावत्वहानितः ॥ ४४९ ॥ नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् । प्रतीतिसचिवात्सम्यक्, परिणामेन गम्यते ॥ ४५० ॥
'परिणामेत्यादि, 'परिणामोऽपि वक्ष्यमाणः नो हेतुः क्व ? इत्याह- 'क्षणिकत्वप्रसाधने' निरन्वयनाशसाधन इत्यर्थः, कथं न हेतुः ? इत्याह- 'सर्वदैव' सर्वकालमेवान्यथात्वेऽपि सति कुमारबालादितया 'तथाभावोपलब्धितः' देहमृदादिभावोपलब्धेरिति ॥ ४४४ ॥ इत्थं चैतदङ्गीकर्त्तव्यमित्याह - 'नार्थान्तरे' त्यादि, न अर्थान्तरगमनं - सर्वथाऽर्थान्तरगमनं 'यस्मात् ' कारणात्, 'सर्वथैव न चागमः' एकान्तेन न चागमनं, परिणाम एवंभूतः 'प्रमासिद्ध:' प्रमाणप्रतिष्ठितः, इष्टश्च खलु पण्डितैः, 'तद्भावः परिणामो यत् तत्तेन तथा भूयत' इति वचनात् ॥ ४४५ ॥ अत्र परोक्तानित्यतामधिकृत्याह 'यचेद' मित्यादिना - यश्चेदमुच्यते निरन्वयनश्वरवादिभिः किमित्याह - ब्रूमोऽतादवस्थ्यं भावानामनित्यताम्, इष्टसिद्धिरस्माकम्, अत्रोत्तरम् -'एतत्' अतादवस्थ्यं परस्य कीदृगित्याह-'तदेव न भवति' 'न तत्र किञ्चिद्भवति, (न) भवत्येव केवलमिति वचनात्, 'अतः' अभवनाद् अन्यत्वेऽतादवस्थ्यस्य ध्रुवोऽन्वयः, तस्यैव तथाभवनादिति ॥ ४४६ ॥ अत्र चायं दोष इत्याह- 'तदेवे' त्यादि, 'तदेव न भवति' तदेवेति नवम (भवन) स्वभावं न भवतीत्यभिदधतः, एतत्तच्चेन्न भवतीति च विरुद्धं, भवनस्वभावस्याभवनत्वायोगात्, 'हन्ते' त्युपदर्शने, किं चान्यदिति दोषान्तरख्यापने, तच्चेदम् - आदिमत्प्रसज्यते, अभवनं, तदाऽभवनादित्युक्तप्रायं च ॥ ४४७ ॥ अत्र प्रस्तुतमेव समर्थयन्नाह - ' क्षीरे'त्यादि, 'क्षीरनाशश्च' क्षीरपरिणा
परिणामा| दक्षणिकता
॥ ६२ ॥