________________
वान्वयत्वात् ॥ ४४१॥ सिद्ध एव दोषान्तरमाह-भूतिरित्यादिना-भूतिः 'येषां भावानां क्रिया सोक्ता भवता, न चासौ-भूतियुज्यते क्वचिदन्या यतः, कथमित्याह-कर्तृभोक्तृवभावत्वविरोधात्, सा हि कर्तृस्वभावा भोक्तृस्वभावा वा?, कर्तृस्वभावत्वे न भोक्तृत्वं, भोक्तृस्वभावत्वे न कर्तृत्वं, न च कर्तृस्वभावत्वमेव भोक्तृत्वम् , अभिन्ननिमित्तत्त्वे प्राक्कृतापनय-18 नेतरेतरोत्पादयोरभेदप्रसङ्गात् , चरमस्य कर्तृत्वाभावाच्च भावे चरमत्वविरोधादिति चिन्त्यतामेतदिति सूक्ष्मधिया, बुझ्या ॥ ४४२ ॥ प्रस्तुतमुपसंहरति-'न चेत्यादिना-न चातीतस्य वस्तुनः सामर्थ्य स्वहेतोरव्यतिरिक्तं 'तस्याम्'अथक्रियायां द्वितीयक्षणलक्षणायाम् , 'इति' एतत् निदर्शितम् , अन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतमित्यनेन, न चान्यो लौकिकः कश्चिच्छब्दार्थः 'अन' अर्थक्रियायां सामर्थ्यमिति वाक्ये, 'इति' एवम् अयुक्तिमदर्थक्रियासमर्थत्वं क्षणिके यद्गी|यत इति ॥ ४४३ ॥ परिणामपक्षमधिकृत्याहहै परिणामोऽपि नो हेतुः, क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि, तथाभावोपलब्धितः ॥ ४४४ ॥
नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः । परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः ॥ ४४५॥ हूँ | यच्चेदमुच्यते बमोऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥ ४४६॥ तदैव न भवत्येतत्तच्चेन्न भवतीति च । विरुद्धं हन्त किश्चान्यदादिमत्तत्प्रसज्यते ॥ ४४७ ॥ क्षीरनाशश्च दध्येव, यद् दृष्टं गोरसान्वितम् । न तु तैलाद्यतः सिद्धः, परिणामोऽन्वयावहः॥ ४४८॥
CASSESAMAGRICA