________________
शास्त्र०
हारि०
॥ ६१ ॥
भूतिर्येषां क्रिया सोक्ता, न चासौ युज्यते क्वचित् । कर्तृभोक्तृस्वभावत्व विरोधादिति चिन्त्यताम् ॥४४२॥ न चातीतस्य सामर्थ्यं, तस्यामितिनिदर्शितम् । न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् ॥४४३ ॥
अर्थक्रियासमर्थत्वं क्षणिके वस्तुनि यच्च गीयते परैः- क्षणिकवादिभिः उत्पत्त्यनन्तरं नाशात् कारणाद्विज्ञेयं तदयुक्तिमदिति ॥ ४३७ ॥ अयुक्तिमत्त्वमेवाह - 'अर्थक्रिये' त्यादिना - अर्थक्रिया यतः 'असौ वा' पदार्थः 'तदन्या वा' अन (र्था)न्तरभावीति द्वयी गतिः, किं चातः ? इत्याह- 'तत्त्व' इति यदि स एवार्थक्रिया, न तत्र सामर्थ्यं तस्य, कुतः ? इत्याह'अन्यतः ' स्वहेतोः 'तत्समुद्भवात् तस्योत्पादात् ॥ ४३८ ॥ एवं नास्योत्पादे सामर्थ्यं, न चान्यत्रेत्याह- 'न खसंधारण' इत्यादिना - न स्वसंधारणे न्यायादस्य सामर्थ्य, कुतः ? इत्याह- जन्मानन्तरनाशतः कारणात्, न च नाशेऽपि सद्युत्या सामर्थ्य, कुतः ? इत्याह- तद्धेतोस्तत्समुद्भवात् स्वहेतोरेव नश्वरोत्पत्तेरिति ॥ ४३९ ॥ तदन्यपक्षे दोषमाह - 'अन्यत्व' इत्यादिना - 'अन्यत्वे' इति यद्यन्याऽर्थक्रिया न तत्र सामर्थ्यमित्याह - अन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतं, सामर्थ्यस्य सामर्थ्यवतः सकाशादभेदात्, स्यादेतत् 'ततः' पदार्थाद् रिक्तघटादेः 'अन्यभाव एव' पूर्वघटोत्पाद एव 'एतत् ' सामर्थ्यं नान्यदित्यत्राह-न 'असो' अन्यस्य भावः 'न्याय्यः' घटमानकः 'दलं विना' उपादानमन्तरेण ॥ ४४० ॥ एत | देव स्पष्टयति- 'नास' दित्यादिना - नासत्सत् जायते यस्मात्, तच्छक्त्यभावेनातिप्रसङ्गात्, अन्यसत्त्वस्थितावपि किमु तस्यापि निवृत्तौ ?, तस्यैव च तु पूर्वक्षणस्य 'तथाभावे' उत्तररूपत्वेन भवने नन्वसिद्धोऽन्वयः कथं ?, भावाविच्छेदस्यै
अक्षणिकेऽप्यर्थक्रिया
॥ ६१ ॥