________________
शा. स. ११
कार्यमेव तच्चेत्सा निवृत्तिरनिवारितोऽन्वयः कार्याभावो वेति सूक्ष्मधिया भावनीयम्, एवं हि हेतुफलभावनिषेधः कृतः स्यात् स प्रत्यक्षबाधित इति ॥ ४३४ ॥ आशङ्का पोहायाह - 'न चाध्यक्षे' त्यादि, न चाध्यक्षविरुद्धत्वमत्र चोदनीयं, 'जनकत्वस्य' प्रस्तुतस्य 'मानत:' मानेनोक्त[त्व]वत् 'असिद्धेः' कारणात्, अत्र प्रक्रमे 'नीत्या' न्यायेन 'तद्व्यवहारनिषेधतः'' जनक व्यवहारनिषेधात् ॥ ४३५ ॥ अयं च परेणाप्याश्रित एव न्याय इत्याह- 'माने' त्यादिना - मानाभावे क्वचिद्वस्तुनि 'परेणापि ' सौगतेन व्यवहारो निषिध्यते प्रधानादौ, किंभूतः १ इत्याह-'सज्ज्ञानशब्दविषयः' सदिति ज्ञानं सदिति च शब्द इत्येवं गोचरः, तद्वद् 'अत्रापि' जनकत्वे दृश्यतां, मानाभावाविशेषात् ॥ ४३६ ॥ युक्तयन्तरमधिकृत्याह - 'अर्थक्रिये'त्यादिना -
अर्थक्रियासमर्थत्वं, क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् ॥ ४३७ ॥ अर्थक्रिया यतोऽसौ वा, तदन्या वा ? द्वेयी गतिः । तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् ॥४३८॥ न स्वसंधारणे न्यायाज्जन्मानन्तरनाशतः । न च नाशेऽपि सयुक्त्या, तद्धेतोस्तत्समुद्भवात् ॥ ४३९ ॥ अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥ ४४०॥ नासत्सत् जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथा भावे, नन्वसिद्धोऽन्वयः कथम् ? ॥४४१॥