SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ शास्त्रक हारि० ASRASHGUASAASASSASSA स्वनिवृत्तिस्वभावत्वादिति ॥ ४३१॥ दोषान्तरमाह-'अन्ये वित्यादिना-'अन्ये तु' आचार्या !'जन्य कार्यमाश्रित्या हिंसाऽयो'सत्खभावाद्यपेक्षया' किं सत्स्वभावः जन्यजनकस्वभावः? उतासत्स्वभावः जन्यजनकस्वभावः? अथोभयस्वभावः जन्य- 18 गादि जजनकस्वभावः? उताहो अनुभयस्वभावः जन्यजनकस्वभाव इत्येवंभूतया एवं' नाशवजातिविकल्पद्वारेणाहुः 'अहेतुत्वम्'तन्यजनकाअकारणत्वं जनकस्यापि सर्वथा, न केवलं नाशहेतोरेव ॥ ४३२॥ एतदेव स्पष्टयति-'न सदित्यादिना—'न सत्खभाव- हेतुत्वादि जनक' इति न सत्स्वभावस्तु जनकस्वभावो-जनकहेतुः, कुतः? इत्याह-'तद्वैफल्यप्रसङ्गतः' सत्स्वभावत्वेनैव जन्यस्य तस्य जनकस्य वैफल्यप्रसङ्गात् , सत एवाकरणात्, अनिष्ठितेः, सदा सत्त्वाविशेषादिति, 'जन्मायोगादिदोषाच' कारणात् न 'इतरस्यापि' अ(सत्)स्वभावस्य जन्यस्य युज्यते जनक इति योगः, जनकस्वभाव इत्यर्थः, असतः अयोगात्, प्रकृत्यन्यथानुपपत्तेः, भावेऽपि तुच्छत्वादिति ॥ ४३३ ॥ विकल्पान्तरदोषमाह-'नचे'त्यादिना-'न चोभयादिभावस्ये'त्युभयस्वभावस्यानुभयस्वभावस्य वा, जनक इति वर्तते, कुतः? इत्याह-'विरोधासंभवादितः' उभयस्वभावजनकत्वे | विरोधात्, वस्त्वविरोघेऽपि स्वमतविरोध एव, अनुभयस्वभावजनकत्वेऽसम्भवादिति तादृशस्यासम्भवस्तथानुपलब्धेरिति । मतान्तरमाह-खनिवृत्त्यादिभावादी जनकत्वे कार्याभावादितः कारणात् अपरे आचार्याः, जनकस्याहेतुत्वमाहुरिति वर्तते, एतदुक्तं भवति-स जनकः स्वनिवृत्तिस्वभावः कार्यजननस्वभावः उभयस्वभावोऽनुभयस्वभावो वा ?, यदि स्वनिवृत्तिस्वभावः कुतः कार्यजननमिति कार्याभाव एव, अथ कार्यजननस्वभावः कथं स्वनिवृत्तिः ?, उभयस्वभावत्वे | पूर्ववद्विरोधः, अनुभयस्वभावत्वे चासम्भवादिति । अथ स्वनिवृत्तिरेव कार्यजननमेवं तर्हि जननं कार्यव्यतिरिक्तमिति,
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy