________________
दिना - किश्च निर्हेतुके नाशे सिद्धेऽपि हिंसकत्वं न युज्यते कस्यचित्, कथमित्याह - व्यापाद्यते सदा यस्मान्निर्हेतुकनाशपक्षे, न कश्चित् केनचित् क्वचिदिति ॥ ४२५ ॥ पराभिप्रायमाशय परिहरति- ' कारणे' त्यादिना - कारणत्वात् 'सः' हिंसकः 'सन्तानविशेषप्रभवस्य' विसभागसन्तानोत्पादस्य यदि मन्यसे हिंसक इति, अत्रोत्तरं तन्न, सन्तानसमुत्पत्तेरसम्भवात् ॥ ४२६ ॥ असम्भवमेवाह - 'सांवृत्ते 'त्यादिना - 'सांवृत्तत्वात्' अपरमार्थसत्त्वाद् व्ययोत्पादौ सन्तानस्य खपुष्पवत् न स्तः-न विद्येते, 'तदधर्मत्वाच्च' सन्तानाधर्मत्वाच्चोत्पादस्य हेतुस्तत्प्रभवे कुत इति ॥ ४२७ ॥ भूयोऽपि पराभिप्रायमाशङ्कय परिहरति- 'विस भागे' त्यादिना - 'विसभागक्षणस्याथ' सूकरक्षणात् शशक्षणादेः जनको हिंसको लुब्धकादिः, इह समाधिः- 'न तत्' नैतदेवं, कुतः ? इत्याह- स्वतोऽपि 'तस्य' हिंसकस्य शूकरक्षणादेः 'तत्प्राप्तेः' हिंसकत्वप्राप्तेः, कथम् ? - ' जनकत्वाविशेषतः तस्यापि उपादानतया जनकत्वात् ॥ ४२८ ॥ इहैवाक्षेपपरिहारावेवाह - 'हन्म्येन'मित्यादि, हन्म्येनमितिसक्लेशात् ( हिंसकश्चेत् लुब्धकादिः प्रकल्प्यते तदपि न त्वन्नीतितः ) तत् कथमित्याह - विग्रा( यस्मात् ) संक्लेशो न युज्यत इति ॥ ४२९ ॥ एतदेवाह - 'संक्लेश' इत्यादिना - सङ्केशो 'यत्' यस्मात् गुणोत्पादः, स चाक्लि ष्टादुपादानान्न केवलात् न च 'अन्यसचिवस्यापि हिंस्यादिसहकारिणोऽपि, 'तस्य' उपादानस्थानतिशयात् 'ततः' सहकारिण इति । अनतिशयश्च समानोऽसमानकालकरणायोगात् ॥ ४३० ॥ पराभिप्रायमाशङ्क्य परिहरति- 'त' मित्यादिना - 'तं' हिंसकं प्राप्य ततश्च 'तत्स्वभावत्वात्' संक्लेशजननस्वभावत्वात्तदुपादानस्य ततः सहकारिणः 'सः' सक्केश इति चेत्, अत्रोत्तरमाह - ननु 'नाशहेतुं' मुद्गरमवाप्य 'एवं' स्वभावकल्पनायां नाशपक्षेऽपि न क्षतिः, तस्यापि तं प्राप्य