SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० ॥५८॥ क्षणिकवादपरीक्षा है 'यच्चोक्त'मित्यादि, यच्चोतं पूर्वम् अत्रैव वार्त्ताधिकारे क्षणिकत्वप्रसाधनं, किं तत्? इत्याह-नाशहेतोरयोगादि, पूर्वपक्षवादिना, तदिदानी 'परीक्ष्यते' विचार्यते ॥ ४१४ ॥ परीक्षयन्नाह हेतो रित्यादि, 'हेतोः' स्वकारणात् स्यात् 'नश्वरो भावो' नाशशीलः 'अनश्वरो वा' अनाशशीलो वा विकल्प्य यत्-यदि नश्वरः किं नाशहेतुना ?, स्वत एव नाशात् , अथानश्वरस्तथाऽपि किं ?, ततोऽप्यनाशादिति 'नाशहेतोः' मुद्गरादेरयोगित्वमुच्यते, नाशहेतुत्वेन, तत् 'न युक्तिमत् न घटमानकम् ॥ ४१५॥ कथमित्याह-हेतु'मित्यादि, हेतुं प्रतीत्य, मुद्गरादि, यद् 'असौ' भावस्तथा नश्वरः, प्रायोगिकादिनाशापेक्षया, इष्यते, तच्च हेतोरेव, निदर्शनमाह-यथैव 'भवतः' बौद्धस्य 'हेतुः' घटादिः 'विशिष्टफलसाधकः' कपालादिसाधकः ॥४१६॥ एतदेव साधयन्नाह-तथे'त्यादि, तथास्वभाव एव 'असौ हेतुः घटादिः | स्वहेतोरेव सकाशाजायते, कीदृशः? इत्याह-सहकारिणमासाद्य यः मुद्रादिं तथाविधकार्यकृत् , विजातीयकपालादिकार्यकृदित्यर्थः॥ ४१७ ॥ उपचयमभिधित्सुराह-'न पुन रित्यादि, न पुनः 'क्रियते' निर्वय॑ते किश्चिदतिशयाधानं 'तेन मुद्गरादिना 'अस्य' घटादेः सहकारिणेति, कुतः? इत्याह-समानकालभावित्वात् , मुद्गरादेः, तथा चोक्कमिदं तव स्वशास्त्रे ॥ ४१८ ॥ यदुत-'उपकारी'त्यादि, 'उपकारी क्षीरादिलादेः 'विरोधी' नकुलादिः सोदेः 'सहकारी' मद्रादिः कपालादेः यो 'मतः' इष्टः स 'प्रबन्धापेक्षया' सन्तानापेक्षया 'सर्वः' निरवशेषः नैककाले कथश्चन, तत्सताया एवोपकारादित्वादिति ॥ ४१९ ॥ तथैव चोक्तम्-'सहकारी'त्यादि, 'सहकारिकृतः' मुद्गरादिकृतः 'हेतोः' घटादेः विशेपो नास्ति यद्यपि समानकालत्वेन 'फलस्य तु' कपालादेः विशेषः 'अस्ति' विद्यत एव, 'तत्कृतातिशया ॥५८॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy