________________
त्यादि, विज्ञानमात्रवादो 'यत्' यस्मात् नेत्थमुक्तन्यायात् युक्त्योपपद्यते, 'प्राज्ञस्य' पुंसः अभिनिवेशो न तस्मात्कारणा
दत्रापि युज्यते विज्ञानवादे ॥ ४१३ ॥ अतिदिष्टानिधित्सयाऽऽह18| यच्चोक्तं पूर्वमत्रैव, क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि, तदिदानी परीक्ष्यते ॥ ४१४ ॥
हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्प्य यत् । नाशहेतोरयोगित्वं, उच्यते तन्न युक्तिमत्॥४१५॥
हेतुं प्रतीत्य यदसौ, तथा नश्वर इष्यते । यथैव भवतो हेतुर्विशिष्टफलसाधकः ॥ ४१६ ॥ है तथास्वभाव एवासौ, स्वहेतोरेव जायते । सहकारिणमासाद्य, यस्तथाविधकार्यकृत् ॥ ४१७ ॥
न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा । समानकालभावित्वात्तथा चोक्तमिदं तथा(व) ॥ ४१८॥ | उपकारी विरोधी च, सहकारी च यो मतः। प्रबन्धापेक्षया सर्वो, नैककाले कथञ्चन ॥ ४१९ ॥ सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति, तत्कृतातिशयाप्तितः ॥ ४२० ॥ न चास्यातत्वभावत्वे, स फलस्यापि युज्यते । सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् ॥ ४२१ ॥ अस्थानपक्षपातश्च, हेतोरनुपकारिणि । अपेक्षायां नियुङ्क्ते यत्कार्यमेतद्वृथोदितम् ॥ ४२२ ॥ यस्मात्तस्याप्यदस्तुल्यं, विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य, ननु न्यायान्निदर्शितम् ॥ ४२३ ॥
CHIHARAOSAURUSAHAAN