SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ शास्त्र हारि० विज्ञानवादनिरास RASHISH SAUSISUSTUSSUREX च 'तस्य' रागादिक्लेशवर्गस्य 'भेदेन' चेष्टेत (नाशेन) 'भावः स्यात्' सत्ता भवेत् पटशुद्धिवत् , यथा पटशुद्धौ नील्यादेः, यत एवं ततो 'बाह्यार्थतासिद्धिः' बाह्यार्थताऽवस्थितिरनिष्टा संप्रसज्यति, विज्ञानमात्रवादिन इति ॥ ४०७॥ पराभिप्रायमाशय परिहरति-'प्रकृत्ये'त्यादिना-'प्रकृत्यैव' स्वभावेनैव 'तथाभूतं' मलिनं 'तदेव' चित्तं क्लिष्टता न ततोऽन्यत्कारीति चेत्, अत्रोत्तरं-'तदन्यूनातिरिक्तवे[चित्तमात्रा] चित्तमात्रभावे सति केन मुक्तिस्तस्य चेतसो ?, विचिन्त्यतामेतदिति ॥ ४०८॥ पराभिप्रायमाह-'असत्यपी'त्यादिना-असत्यपि च 'बाद्य वस्तुनि ग्राह्यग्राहकलक्षणा एतद्पा द्विचन्द्रभ्रान्तिवद्धान्तिरनुभवसिद्धा इयं नः-इयमेव भ्रान्तिरस्माकं क्लिष्टतेति चेत् ॥४०९॥ अत्रोत्तरमाह| 'अस्त्वेत्यादिना-'अस्त्वेतत् भवत्वेतत् एवं, किंतु अत्रापि 'तद्धेतुभिन्नहेत्वन्तरोद्भवा' एकचन्द्रबोधकारणाक्षादिव्यतिरिक्ततिमिरादिकारणान्तरोद्भवा यस्मादियं द्विचन्द्रादिभ्रान्तिर्भवेत् , एतदेव स्पष्टयति-तिमिराभावे नेन्दद्वयदर्शनं, शङ्खपीतादिदर्शनहेतुकामलाद्युपलक्षणमेतत्, इत्थं यथा तिमिरादि एकचन्द्रादिबोधहेतुभ्योऽन्यदधिकं, तथा बोधमात्रादधिकस्तक्लिष्टताहेतुरित्यैदम्पर्यम् ॥ ४१० ॥ एतत्प्रकटनायैवाह-'न चासदि'त्यादि, न चासदेव-तुच्छ 'तद्धेतुः क्लिष्टताहेतुः, 'बोधमात्रं' अन्याननुविद्धं न चापि तत्, हेतुः, कुत इत्याह-सदैव क्लिष्टतापत्तेः, बोधमात्राविशेषादिति, मुक्तिन युज्यते परमार्थेन ॥४११॥ ततः किमित्याह-मुक्त्येत्यादि, मुक्त्यभावे च सति सर्वैव तपस्विनां ननु चिन्ता 'निरर्थिका' निष्प्रयोजना, स्यादेव बोधमात्रभावे सदैव मुक्तिरित्यत्राह-भावेऽपि 'सर्वदा' सदा 'तस्याः' मुक्तेः चिन्ता निरर्थिकैवेति सम्यगेतद्विचिन्त्यता, प्रधानफलत्वादिति ॥ ४१२॥ उपसंहरन्नाह-विज्ञाने'
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy