SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ धान्तत्वे, किमित्याह-'भ्रान्तस्य' द्विचन्द्रादिज्ञानस्याभ्रान्तता भवेत् , निर्दोषहेतुत्वादित्यर्थः॥४०॥ दोषान्तरमभिधातुमाह-'न चे'त्यादि, न च प्रकाशमानं तु सर्वथैकस्वभावमेव लोके क्वचित् 'अकर्मकम्' अनवलम्बनं दीपादौ युज्यते न्यायात्, प्रकाशकत्वेनोपलब्धेः, अतश्चैतद् अपार्थकं, विज्ञानाकर्मकत्वकल्पनमिति ॥४०१॥ दृष्टान्तमधिकृत्याह-दृष्टान्ते'त्यादि, दृष्टान्तमात्रतः सिद्धिः, आस्ते शेते इति परिभाषिताद् अस्मात् अत्यन्तविधर्मिणः-बोधात्मनो, न च 'साध्यस्य' विज्ञानस्य, तद्धि विज्ञानत्वादेव, किञ्चिद्विज्ञानं नान्यथा, 'यत्' यस्मादेवं तेन कारणेन शब्दमात्रमसावपि दृष्टान्तो, न तु लक्षणयुक्त इति ॥ ४०२ ॥ अत्रैव प्रधानदोषमाह-'किंचे'त्यादिना-किश्च 'विज्ञानमात्रत्वे', तदन्यविकल एव, न संसारापवर्गयोः विशेषो विद्यते कश्चित् , तन्मात्रस्योभयत्राविशेषात् , तथा चैतद्वथोदितं भवतामागम इति ॥ ४०॥ यदुदितं तदाह-'चित्त'मित्यादिना-'चित्तमेव हि विज्ञानमेव संसारः, किंभूतं चित्तमित्याहरागादिक्लेशवासितं, युक्तं, तदेव चित्तं रागादिक्लेशैर्विनिर्मुक्तं सत् भवान्त इति कथ्यते, अपवर्ग इत्यर्थः॥ ४०४॥ यथैतद्वथा तथाऽऽह-रागादी'त्यादिना-रागादिक्लेशवर्गो यत्तस्मान्न विज्ञानात्पृथग् मतः, किन्तु बोधमात्रं, तत एव एकान्तेनैकस्वभावे बोधात्मना 'तस्मिन् विज्ञाने किं केन वासितं ?, वासकाभावात् ॥ ४०५॥ पराभिप्रायमाशय परिहरति-क्लिष्ट'मित्यादिना-'क्लिष्टं मलिनं विज्ञानमेव 'असौ' रागादिक्लेशवर्ग इति, आह-क्लिष्टता 'तस्य विज्ञानस्य 'यद्वशात् यत्सामर्थेन, नील्यादिवत्पटादिक्लिष्टताकारि 'असौ' रागादिक्लेशवर्गः 'वस्तु' अपरिकल्पितः 'तद्वद्वेव' विज्ञा- नात्मकबोधवदेव प्रसज्यते, उभयजत्वात् क्लिष्टताया इत्यभिप्रायः॥४०६॥ प्रसङ्गदोषमाह-'मुक्तौ चेत्यादिना-मुक्ती
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy