________________
शास्त्र
विज्ञानवादनिरासः
हारि०
|'उच्यते' इत्यादिना-उच्यते सांप्रतमदः-एतदभिनिवेशत्यागेन स्वयमेव 'विचिन्त्यताम्' आलोच्यतां, प्रमाणाभावतः 'तत्र' अविशिष्टप्रकाशकमात्रे विज्ञाने यद्येतदुपपद्यते ॥ ३९५ ॥ एवं च तत्त्वस्थापनं यथा येनोपपद्यते तथाऽऽह-एवं नेत्यादिना-एवं' गगनतलवालोककल्पनायां न 'यत् यस्मात्तदात्मानमपि प्रकाशयति, प्रकाशैकमात्रस्वभावत्वादिति, 'अतः' अस्मात्कारणात् तदित्थं-प्रकाशमात्रम् 'अन्यथा नेति सकर्मकमिति न विज्ञानव्यवस्थितिः, तस्य तदग्राह्यस्वभावत्वादिति ॥ ३९६ ॥ एतदेव समर्थयति-व्यवस्थिता' वित्यादिना-व्यवस्थितौ च विज्ञानात् तत्तथातायाः 'तत्' विज्ञानं व्यवस्थापकं 'तस्य व्यवस्थाप्यज्ञानस्य तथाभावप्रकाशकम्' अकर्मकप्रकाशमात्रद्योतकं ध्रुवं यतस्ततोऽकर्मकत्वम् 'अस्य व्यवस्थापकसन्तानस्य कथं भवेत्?, नैव, सति चास्मिन् सर्वमित्थं स्यादित्यभिप्रायः॥ ३९७ ॥ पराभिप्रायमाशय परिहरन्नाह-(व्यवस्थापकं-व्यवस्थाकारि विज्ञानमस्य परपरिकल्पितस्यार्थस्य एवं यत् भ्रान्तं चैतत्तु भावतः, अकर्मकप्रकाशने किमित्याह-तथेत्यभ्रान्तं, अत्रापि) परिहारविज्ञाने ननु मानं न विद्यते, अस्यापि सविषयत्वेन भ्रान्तत्वादित्यर्थः॥ ३९८ ॥ यदि नामैवं ततः किमित्याह-'भ्रान्ता'दित्यादि, भ्रान्ताच्चास्मात्परिहारविज्ञानाद् अभ्रा|न्तिरूपा न साध्वी-न युक्तियुक्ता व्यवस्थितिः, व्यवस्थापकस्येदं भ्रान्तमित्यादिरूपा, पराभिप्रायमाह-दृष्टा तमिरिकादीनामक्षादाविति चेत्, तैमिरिकादयो हि भ्रान्तिज्ञानवन्तोऽपि नैव द्विचन्द्रादिज्ञानेनाक्षदोषादौ व्यवस्थितिं कुर्वन्तीति च, अत्रोत्तरं-नैतत् 'नैतदेवम् ॥ ३९९ ॥ कथमित्याह-'नाक्षादी'त्यादि, 'अनक्षादिदोषविज्ञानं तिमिरादिगोचरं 'तदन्यभ्रान्तिवत् द्विचन्द्रादिभ्रान्तिवत् यतो भ्रान्तं, किन्त्वभ्रान्तमेव, तस्य तथाभावे इत्यक्षादिदोषविज्ञानस्य
॥५६॥