SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भ्युपगम्यमाने 'प्रद्वेष:' मत्सरः अर्थे 'अनिबन्धनः' अनिमित्तः । कथमित्याह - 'ज्ञानान्तरेऽपि' सन्तानान्तरवृत्तिनि सदृशं तदसंवेदनादि, विज्ञानान्तरासंवेदनात्तत्सत्तादि यस्मात् ॥ ३८९ ॥ उपन्यस्तदोषतुल्यतामुपदर्शयन्नाह - ' युक्त्तययोग' इत्यादि, युक्त्ययोगश्च योऽर्थस्य परैर्महता प्रपञ्चेन गीयते 'जातिवादतः' अनुभवविरुद्धवादेन 'ग्राह्यादिभावद्वारेण' वक्ष्यमाणलक्षणेन ज्ञानवादेऽप्यसौ समः, समता तु ज्ञानजातिवादमात्रख्यापनादिति ॥ ३९० ॥ समतामभिधातुमाह - ' नैकान्ते' त्यादि, ज्ञानं हि ग्राह्यस्वभावं ग्राहकस्वभावम् उभयस्वभावमनुभयस्वभावं वा स्यादिति, अत्राह - 'नको-न्तग्राह्यभावं तत्' न सर्वथा ग्राह्यत्वभावं ज्ञानं, कुतः ? इत्याह- 'ग्राहकाभावतो भुवि पृथिव्यामपि ग्राहकस्वभावस्याभावात्, 'ग्राहकान्तभावं तु' ग्राहकैकत्वमित्यर्थः, ग्राह्याभावादसङ्गतम्, एवं हि न पृथिव्यामपि ग्राह्यस्वभावं किश्चित्, सम्बन्धिशब्दौ चैताविति भावनात् ॥ ३९१ ॥ तृतीयं पक्षमधिकृत्याह - 'विरोधा' दित्यादि, विरोधात् 'नोभयाकारं' नोभयस्वभावम्, अन्यथा तदसद्भवेत्, यद्यनुभयस्वभावं, कुतः ? इत्याह- निःस्वभावत्वतः कारणात् 'तस्य' विज्ञानस्य, सत्ता 'एवम्' उक्तेन प्रकारेण युज्यते कथं ?, नैवेत्यर्थः ॥ ३९२ ॥ पराभिप्रायमाह - 'प्रकाशे' त्यादिना - 'प्रकाशैकस्वभावं हि' गगनतलवृत्त्यालोककल्पं विज्ञानं 'तत्त्वत:' परमार्थतः 'मतम्' इष्टम् 'अकर्मकं' कर्मरहितं, तथा चैतज्जातं स्वयमेव प्रकाशते, किं प्रकाशते ?, विज्ञानं प्रकाशत इति, कर्मणोऽश्रवणात् ॥ ३९३ ॥ अत्रैव दृष्टान्तमाह'येथे' त्यादिना - यथाssस्ते शेत इत्यादौ प्रयोगे विना कर्म स एव हि - कर्त्ता देवदत्तादिः तथोच्यते आस्ते शेते, न तु यथा कटं करोति, जगत्यस्मिन्नेव यथैव, तत्र तथा ज्ञानमपीष्यतां, अकर्मकं प्रकाशत इति ॥ ३९४ ॥ अत्रोत्तरमाह
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy