________________
शास्त्र हारि०
॥५५॥
दिना-'अतहणभावैश्च' अबाह्यार्थग्रहणस्वभावैश्च प्रत्ययान्तरैः यदि नाम न गृह्यते-बाह्यार्थग्रहणस्वभावविज्ञानं विज्ञानवाजन्यते, तत एतावता कारणेनासत्त्वं न 'तस्य' बाह्यार्थस्य, 'अतिप्रसङ्गतः' पीतासंवेदनत्वस्वभावेन तदसंवेदने पीत- दनिरासः संवेदनाभावप्रसङ्गात् ॥ ३८३ ॥ पराभिप्रायेण मानमाह-'विज्ञान'मित्यादिना-विज्ञानं यत्स्वसंवेद्यं, तथाऽनुभूतेः, नत अर्थः स्वसंवेद्यः, कस्मादित्याह-'युक्ति(त्य)योगतः' समूह्याद्यसिद्धेः, अतः 'तद्वेदने विज्ञानानुभवे 'तस्य' अर्थस्य ग्रहण नोपपद्यते, न्यायतः॥ ३८४ ॥ एतदेव निगमयति-'एवं चेत्यादिना-एवं चाग्रहणादेव कारणात् तदभावोऽवसीयते,13 | अर्थाभावः, यत एवमतः किमुच्यते-मानमर्थाभावे न विद्यते, विज्ञानस्वसंवेदनस्यैव मानत्वादित्यभिप्रायः॥ ३८५॥द सिद्धान्तवादिमतम्-'अर्थग्रहणे'त्यादि, 'अथग्रहणरूपं' बाह्यार्थपरिच्छेदात्मकं 'यत्' यस्मात् 'तत् तस्माद्विज्ञानं संवेद्यमिष्यते, विच्छिन्नार्थग्रहणरूपतयाऽनुभूतेः, 'तद्वेदने' एवंभूतविज्ञानानुभवे ग्रहः 'तस्य' अर्थस्य, 'ततः' तस्मात किं नोपपद्यते?, अधिकृतवेदनस्यैवार्थमन्तरेणायोगात् ॥ ३८६ ॥ एतदेव भावयन्नाह–'घटादी'त्यादि, घटादिज्ञानमित्यादि 'संवित्तेः' ज्ञानमात्रस्यान्यमुखस्यावेदनात् 'तत्प्रवृत्तिः' घटादावेव प्रवृत्तेः, प्राप्तः, घटादेरेव 'अर्थक्रियायोगात्' जलाद्यानयनादिसिद्धेः, 'स्मृतेः' गृहीतकस्य 'कौतुकभावतः' तत्रैव कौतुकयोगात् ॥३८७॥ विपक्षे दोषमभिधातुमाह-ज्ञानमात्र' इत्यादिना-ज्ञानमात्रे त्वभ्युपगम्यमाने विज्ञानं-ज्ञानमेव घटादि इत्यदो भवेत्-एतत्स्यात्, परिच्छेद्यान्तराभावात् , ततः किमित्याह-प्रवृत्त्यादि ततो न स्याद्, अनन्तरोदितं, किं भूतमित्याह-प्रसिद्ध लोकशास्त्रयोः, नियमतस्तथाविधविज्ञानोदयो न ॥ ३८८॥ दोषान्तरमनिधित्सुराह-तदन्येत्यादि, तदन्यग्रहणे च 'अस्य' ज्ञानस्या
सिद्धान्तवादियत एवमतः किमुच्यत्व निगमयति-पवायसिद्धेः, अतः