________________
HARISHISHISAURUSAN
तत्स्वभावत्वे-उपलब्धिलक्षणप्राप्तत्वे तस्य) रूपोपलम्भ(ब्ध)स्यार्थस्य 'असिद्धिः' अनुपलब्धिः कथं भवेद् ?, उपलम्भजननस्वभावे हेतुसाकल्यविरोधात् ॥ ३७८ ॥ अत्रैवाक्षेपपरिहारावाह-'सहार्थेनेत्यादिना-सहार्थेन' भवत्परिकल्पितेन 'तज्जननखभावानि' अर्थोपलम्भजननस्वभावानि प्रत्ययान्तराणि, यदाह न्यायवादी-"स्वभावविशेषश्च यः स्वभावस्तत्शून्येषूपलम्भप्रत्ययेषु सत्प्रत्यक्ष एव भवती"ति चेत् , यद्ययमभिप्रायः, अत्रोत्तरं-ननु “जनयत्येव सत्येव'मिति यद्यर्थेन सह तजननस्वभावानि ततोऽर्थव्यतिरेकेण तदनुपपत्तेस्तद्रूपत्वाजनयन्त्येवेति सूक्ष्मधिया भावनीयम् , 'अन्यथाऽतत्वभावता' यद्येवं नेष्यते न तर्हि सहार्थेन तजननस्वभावानि, तमन्तरेणैव तेषां भावादिति ॥ ३७९ ॥ अत्रैव विशेषमाह-योग्यता'मित्यादिना-योग्यतामधिकृत्याथ तेषां प्रत्ययान्तराणां 'तत्वभावत्वकल्पना' जननस्वभावत्वकल्पना, यद्यर्थो भवति जनयति तेन सह तदुपलम्भ, नान्यदा, अत्रोत्तरं-हन्तवमपि-योग्यतासमाश्रयणेऽपि सिद्धोऽर्थः, सामान्येन, कुतः? इत्याह-'कदाचित् यस्मिन् कस्मिंश्चित्काले उपलब्धेः कारणात् ॥ ३८०॥ एतदेव सम
र्थयति-'अन्यथेत्यादिना-'अन्यथा' यद्येवं कदाचित्कार्यों नेष्यते ततो योग्यता 'तेषां' प्रत्ययान्तराणां कथं युक्त्यो-8 है पपद्यते?, कार्यगम्यैव सा, एतदेव द्रढयति-न लोकेऽश्वमाषादेः' काङ्कडुकाकाशादीनां सिद्धा 'पत्त्यादियोग्यता
पक्तिमूर्त्तत्वयोग्यता, आकालं तथाविधसहकार्यभावात् ॥ ३८१॥ अधिकृतशेषमाह-'पराभिप्राये'त्यादिना-पराभिप्रायतः' बाह्यार्थवाद्यभिप्रायेणैतदेवं चेद् उच्यते यदुतोपलब्धिलक्षणप्राप्तोऽर्थो नोपलभ्यत इति, अत्रोत्तरम्-'न' नैतदेवं, 'यत्' यस्मादुपलब्धिलक्षणप्राप्तोऽर्थः 'तस्य' परस्योपलभ्यत एवेति ॥ ३८२ ॥ अतत्स्वभावत्वपक्षमाह- अते'त्या
शा.स.१०