________________
शास्त्र
हारि०
॥ ५४॥
प्रकृत्यैव तथाभूतं, तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे, केन मुक्तिर्विचिन्त्यताम् ॥ ४०८॥ | विज्ञानवा
दनिरास: असत्यपि च या बाह्ये, ग्राह्यग्राहकलक्षणे । द्विचन्द्रभ्रान्तिवद्धान्तिरियं नः क्लिष्टतेति चेत् ॥ ४०९ ॥ अस्त्वेतत्किन्तु तद्धेतुभिन्नहेत्वन्तरोद्भवा । इयं स्यात्तिमिराभावे, न हीन्दुद्वयदर्शनम् ॥ ४१०॥ नचासदेव तद्धेतुर्वाद(ोध)मात्रं नचापि तत् । तदैव क्लिष्टतापत्तेरिति मुक्तिर्न युज्यते ॥ ४११ ॥ है मुक्त्यभावे च सर्वैव, ननु चिन्ता निरर्थिका । भावेऽपि सर्वदा तस्याः, सम्यगेतद्विचिन्त्यताम् ॥४१२॥ विज्ञानमात्रवादो यत् नेत्थं युक्त्योपपद्यते । प्राज्ञस्याभिनिवेशो न, तस्मादत्रापि युज्यते ॥ ४१३ ॥
'विज्ञाने'त्यादि, विज्ञानमात्रवादोऽपि परपरिकल्पितः न सम्यगुपपद्यते, कुतः? इत्याह-मानं यत्तत्त्वतः किञ्चित् , स्वतन्त्रनीत्यैव अर्थाभावे न विद्यते ॥ ३७५ ॥ एतदेवामिधित्सुराह-'न प्रत्यक्षमित्यादि, न प्रत्यक्षं मानमत्र, 'यतः यस्मादभावालम्बनं न तत्प्रत्यक्षमिष्यते परैः, एवं नानुमानमर्थाभावे मानं, कुतः ? इत्याह-तथाभूततल्लिङ्गानुपलन्धितः' अर्थाभावप्रतिबद्धसाधुलिङ्गादर्शनात् ॥३७६॥ पराभिप्रायममिधातुकाम आह–'उपलब्धी'त्यादि, उपलब्धिलक्षणप्राप्तः सन्नर्थः परनीत्या यन्नोपलभ्यते ततश्चानुपलब्ध्यैव-अदर्शनरूपया 'तदभावः' अर्थाभावोऽवसीयत इति ॥३७७॥
५४॥ अत्रोत्तरमधिकृत्याह-'उपलब्धी'त्यादि, उपलब्धिलक्षणप्राप्तिरिह परेषां स्वमते तद्धत्वन्तरसंहतिः, (एषां-घटादीनां च