________________
व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम् । ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ? ॥ ३९७ ॥
व्यवस्थापकमस्यैवं, भ्रान्तं चैतन्तु भावतः । तथेत्यभ्रान्तमत्रापि, ननु मानं न विद्यते ॥ ३९८ ॥ है भ्रान्ताच्चाभ्रान्तिरूपान, युक्तियुक्ता व्यवस्थितिः। दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत्॥३९९॥ नाक्षादिदोषविज्ञानं, तदन्यभ्रान्तिवद्यतः। भ्रान्तं तस्य तथाभावे, भ्रान्तस्याभ्रान्तता भवेत् ॥४०॥ न च प्रकाशमानं तु, लोके कचिदकर्मकम् । दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥ ४०१॥ दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन, शब्दमात्रमसाबपि ॥ ४०२ ॥ किञ्च विज्ञानमात्रत्वे, न संसारापवर्गयोः । विशेषो विद्यते कश्चित्तथा चैतद्वथोदितम् ॥ ४०३ ॥ चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥ ४०४॥ 13
रागादिक्लेशवर्गो यन्न विज्ञानात् पृथग् मतः। एकान्तैकखभावे च, तस्मिन् किं केन वासितम् ? ४०५/६ हूँ क्लिष्टं विज्ञानमेवासौ, क्लिष्टता तस्य यद्वशात् । नील्यादिवदसौ वस्तु, तद्वदेव प्रसज्यते ।। ४०६ ॥
मुक्तौ च तस्य भेदेन, भावः स्यात्पटशुद्धिवत् । ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते ॥ ४०७ ॥